________________
aasti परस्थाने उत्कृष्टस्थिति०] द्वितीयाधिकारे ऽल्पबहुत्व द्वारम्
[ ४०३
किं पुनस्तत्तन्मार्गणाभाव्युत्कुष्टस्थितिबन्धः । इत्यतो निरयगत्योघादिसर्वमार्गणासु जघन्यस्थितिबन्त्रापेक्षयोत्कृष्ट स्थितिबन्धः संख्ये गुण एवोक्त इति ।
अथ शेषमार्गणास्वाह - "असंखियगुणो उ सेसासु" इति सुगमम्, नवरम् 'आउस्स जहणाओ ठिधाओ हवेज्ज' इत्यस्यानुवृत्तिर्द्रष्टव्याः । शेषमार्गणास्त्विमा:- तिर्यग्गत्योधपञ्चेन्द्रिय तिर्यगोध--पर्याप्तपञ्चेन्द्रियतिर्यग्योनिमत्तिर्यग्-मनुष्यगत्योय-पर्याप्तमनुष्य-मानुषी- पञ्चेन्द्रियौध-पर्यातपञ्चेन्द्रिय-सकायौध-पर्याप्तत्र सकाय पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौदारिककाययोग-स्त्री-पु--नपुंसकवे:- क्रोधादिचतुः कषाय--मति श्रुताऽवधिज्ञान-मत्यज्ञान - श्रुताज्ञानविभङ्गज्ञाना-ऽसंयम--चक्षुरादित्रिदर्शन- कृष्णादिषल्लेश्या-भव्या-भव्य-सम्यक्त्वौघ- क्षायिक- क्षायोपशमिक-सासादन- मिथ्यात्व-संय- संज्ञयाऽऽ हारिमार्गगा इति ।।४७९-४८०-४८१॥
तदेवमुक्तं जघन्योत्कृष्ट स्थितिबन्धावधिकृत्य ज्ञानावरणादीनां प्रत्येकं स्वस्थानाल्पबहुत्वम् । साम्प्रतमुत्कृष्टादिस्थितिबन्धमाश्रित्य समुदितानामष्टानामपि ज्ञानावरणादीनां यत्परस्थानाल्पबहुत्वं, तणावसरः । तत्रादौ तावदुत्कृष्ट स्थितिबन्धमधिकृत्य व्याजिहीपु रोघत आह— ताहिन्तो वीसगाण संखगुणो ।
आउकोसो तो ती गाण अहियो तत्तो मोहस्स संखगुणो ॥ ४८२ ॥
(प्रे०) “आउस्सुक्को सोऽप्पो" इत्यादि, आयुः कर्मण उत्कृष्टः स्थितिबन्धः 'अल्पः ' -सर्वस्तोकः । तस्मात् " वीस गाण" त्ति ओघोत्कृष्ट स्थितिबन्धप्रमाणमधिकृत्य 'विंशतिकयोः ' -विंशतिसागरोपमकोटीकोटीस्थितिकयोर्नाम - गोत्रकर्मणोः प्रत्येकं संख्येयगुणः परस्परं तु तयोस्तुल्य इति गम्यते । कथम् ? युगपदभिधानात् । अयम्भावः कर्मरूपतावस्थानलक्षणस्थितिबन्धस्याधिकृतत्वादायुप औधिकोत्कृष्टस्थितिबन्धः पूर्वकोटी त्रिभागेनाभ्यधिकत्रयस्त्रिंशत्सागरोपमप्रमाणः सन्नपि शेषसप्तप्रकृतीनामुत्कृष्टस्थितित्रन्वापेक्षया स्तोक एव भवति । नामकर्मण उत्कृष्टस्थितिबन्धो विंशतिसागरोपमकोटीकोटयः, स चायुष उत्कृष्टस्थितिबन्धापेक्षया संख्येयगुणो भवति । तथैव गोत्रकर्मणोऽप्युत्कृष्टस्थितिबन्धो विंशतिसागरोपमकोटी कोट्य इतिकृत्वा नामकर्मण उत्कृष्टस्थितिबन्धेन सह तुल्यः सन्नायुष उत्कृष्टस्थितिबन्धापेक्षया संख्येयगुण एव भवति, ततश्च नामकर्मणा समं तुल्यत्वख्यापनार्थमायुषा समं संख्येयगुणत्वप्रदर्शनाय च नामगोत्रयोरुत्कृष्टस्थितिबन्धस्य युगपत्संख्येयगुणता कथिता । यत्पुनः “वीसगाणे" त्यत्र बहुवचनं तत्तु प्राकृतवशात् । एवमुत्तरत्रापि युगपदभिहितानां स्थितिबन्धविषये परस्परं तुल्यताऽपि विभावनीयेति । " तो तीसगाण अहिओ" त्ति 'ततः' - विंशतिकयोर्नामगोत्रकर्मणोरुत्कृष्ट स्थितिबन्धात् 'त्रिंशत्काना' - त्रिंशत्सागरोपमकोटी कोटयोघोत्कृष्टस्थितिकानां ज्ञानावरण-दर्शनावरण- वेदनीया-ऽन्तरायकर्मणां प्रत्येकमधिकः विशेषाधिकः, उत्कृष्टस्थितिबन्ध इत्यनुवर्तते । अत्रापि ज्ञानावरणादीनां चतुर्णामुत्कृष्टस्थितिबन्धस्य परस्परं तुल्यत्वमेकैकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org