________________
४०२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषः स्वस्थाने जघन्योत्कृष्टस्थिति० प्रमाणाज्जघन्यस्थितिबन्धाद्विशेषाधिकः । “णेयो सेसासु संखगुणो" ति नरत्रिकेत्यादिनाऽनन्तरोक्ता नवनवतिमार्गणास्त्यक्त्वा शेपास्वेकसप्ततिमार्गणासु प्रत्येकं संख्येयगुणो ज्ञातव्यः, सप्तानामुत्कृष्टस्थितिबन्ध इत्युनुवर्तते, जघन्यस्थितिबन्धापेक्षयेति गम्यत इति ।
शेषमार्गणास्त्विमा:-अष्टौ नरकमेदाः, त्रिंशदपि देवगतिभेदाः, पञ्च तिर्यक्पञ्चेन्द्रियभेदाः, अपर्याप्तमनुष्या-ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायभेदाः, औदारिकमिश्र-वैक्रिय-वैक्रियमिश्राऽऽहारका-ऽऽहारकमिश्र-कार्मणकाययोगाः, मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञान-परिहारविशुद्धिक-सूक्ष्मसम्पराय-देशसंयमा-ऽसंयम-कृष्णादिपञ्चलेश्या-ऽभव्य-क्षायोपशमिकसम्यक्त्व-सासादन-सम्यग्मिथ्यात्व-मिथ्यात्वा- संज्य-ऽनाहारिमार्गणाभेदाश्चेति ॥४७८॥ तदेवमुक्तमायुर्वर्जसप्तप्रकृतीनामादेशतोऽपि प्रकृताल्पबहुत्वम् । साम्प्रतमायुपस्तदादेशत आहसव्वेसुणिरया-ऽमर-एगिदिय-विगल-पंचकायेसु। असमत्तपणिदितिरिय-मणुस-पणिदिय-तसेसु च ॥४७९॥ आहारदुगे विउवे उरालमीस-मणपज्जवसुच। संयम-सामाइएसु छेए परिहार-देसेसु ॥४८०॥ आउस्म जहण्णाओ ठिइबंधाओ हवेज्ज संखगुणो। ठिइबंधो उक्कोसो असंखियगुणो उ सेसासु ॥४८१॥
(प्रे०) “सव्वेसु”इत्यादि,सर्वासु निरयगतिमार्गणासु, सर्वासु देवगतिमार्गणासु, तथैव सर्वैकेन्द्रिय-सर्वपथिव्यादिवनस्पतिकायान्तपञ्चकायसत्कमार्गणास्वित्यर्थः । “असमत्ते" त्यादि, अत्राप्यसमत्तशब्दस्य प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियतिथंग-पर्याप्तमनुष्या-ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायमार्गणास्वित्यर्थः। चकारस्तु समुच्चये । तेनान्यमार्गणाः समुच्चिन्वन्नाह-"आहारदुगे” इत्यादि, आहारका-ऽऽहारकमिश्रकाययोगमार्गणाद्वयरूप आहारकद्विके वैक्रियकाययोगमार्गणायामौदाकिमिश्रकाययोग-मनःपर्यवज्ञानमार्गणयोः । चः पादपूत्यें । “संयमे" त्यादि, संयमोघ-सामायिकसंयममार्गणयोः, छेदोपस्थापनसंयममार्गणायां परिहारविशुद्धिकसंयम-देशसंयममार्गणयोरित्येतासु सप्तोत्तरशतमार्गणासु । एतासु किमित्याह-"आउस्स जहण्णाओ” इत्यादि, आयुःकर्मणः स्तोकाजघन्यस्थितिबन्धात्तस्यैवोत्कृष्टः स्थितिबन्धः संख्ययगुणो भवेदित्यर्थः । कुतः ? इति चेत् , कासुचिन्निरयगत्योघादिमार्गणासूत्कृष्टस्थितिबन्ध औधिकजघन्यस्थितिबन्धापेक्षयाऽपि संख्येयगुण एव । कथम् ? पूर्वकोटिवर्षप्रमाणत्वात् । ततः किम् ? ततो निरयगत्यादिमागंणासत्कजघन्यस्थितिबन्धापेक्षया त्वसौ सुतरां संख्येयगुणो भवेत् । कासुचिन्मनःपर्यवज्ञानादिमार्गणासु त्वायुषो जघन्यः स्थितिबन्ध एव पल्योपमपृथक्त्वं तदधिको वा जायते, तदपेक्षया त्वौधिकोत्कृष्टस्थितिबन्धोऽपि संख्येयगुणः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org