SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ जघन्योत्कृष्ठस्थितिबन्धाल्पब० ] द्वितीयाधिकारे ऽल्पबहुत्वद्वारम् [ ४०१ "सत्तग्ह गुरू असंखगुणो" इत्यस्याऽपर्याप्तवर्जभेदत्रय एघोपपतेः । अत एव “दुपणिंदियतसे'त्यत्र पञ्चेन्द्रियत्रसोभयत्रयोजनीयद्विशब्देनाऽपर्याप्तमेदवौँ पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रियरूपौ द्वौ भेदो, तथैवापर्याप्तभेदवों द्वौ त्रसकायभेदो गृह्यते । “पणमणव यणे" त्यादि, प्राग्वत् पश्चमनोयोग-पञ्चव वन योगास्तेषु, काययोगसामान्यौ-दारिककाययोगयोः, स्त्री-पुरुष-नपुंसकरूपवेदत्रिक-क्रोधादिकषायचतुष्क-मत्यादिज्ञानचतुष्क-संयमोघमार्गणासु । च उक्तानुक्तसमुच्चये। अनुक्तमार्गणा आह-"समइअ" इत्यादिना, सामायिक-छेदोपस्थापनसंयम-चक्षुरादित्रिदर्शन-शुक्ललेश्याभव्य-सम्यक्त्योध-क्षायिको-पशमिकसम्यक्त्वेषु संज्ञिमार्गणायां तथाऽऽहारिमार्गणायामित्येतासु त्रिचत्वारिंशन्मार्गणासु प्रत्येकं-"सत्तण्ह गुरू असंखगुणो" ति आयुर्वर्जानां सप्तानां 'गुरु:'उत्कृष्टः स्थितिवन्धोऽसंख्यगुणो भवतीत्यर्थः । कस्माद् ? इति चेत् , स्तोकाज्जघन्यस्थितिबन्धात् । पदद्वयस्याल्पबहत्व एकपदस्याऽसंख्येयगुणत्वादिकेऽभिहितेऽन्यपदस्य स्तोकत्वं सुतरां गम्यते । ततश्च ज्ञानावरणस्य जघन्यस्थितिबन्धः स्तोकस्ततो ज्ञानावरणस्योत्कृष्टस्थितिबन्धोऽसंख्यगुणः, एवमायुर्वर्जदर्शनावरणादीनामपि ज्ञेयम् । यद्वा “जहण्णाओ" इति पूर्वतोऽनुवर्तते, अतस्तदपेक्षया संख्येयगुणत्वं योजनीयम् । एवमेवाग्रेऽपि ज्ञेयम् । भावना त्वत्रौधवद् द्रष्टव्या, यद्वा तत्तन्मार्गणायां स्थितिबन्धप्रमाणद्वारोक्तजघन्योत्कृष्टस्थितिवन्धप्रमाणमपेक्ष्य द्रष्टव्येति ॥४७५-४७६।। गयवेए उक्कोसो संखेज्जगुणो चउण्ह घाईणं । यो असंखियगुणो तिण्ह अघाईण उक्कोसो ॥४७७॥ (प्रे०) “गयवेए” इत्यादि, अपगतवेदमार्गणायां "चउण्ह घाईणं" ति ज्ञानावरणदर्शनावरण-मोहनीया-ऽन्तरायलक्षणानां चतुर्णा घातिप्रकृतीनां “उक्कोसो" ति उत्कृष्टस्थितिबन्धः “संखेजगुणो” त्ति प्राग्वज्जघन्यस्थितिवन्धापेक्षया संख्येयगुणः । “तिण्ह अघाईण उक्कोसो” त्ति अधिकृतमार्गणायामायुर्वन्धस्याऽभावादायुर्वर्जानां वेदनीय-नाम--गोत्रलक्षणानां त्रयाणामघातिप्रकृतीनामुत्कृष्टः स्थितिबन्धः “यो असंखियगुणो” त्ति असंख्यगुणो ज्ञेयः । स्वस्थानाल्पबहुत्वस्य प्रकृतत्वादत्रापि ज्ञानावरणस्य जघन्यस्थितिबन्धापेक्षया ज्ञानावरणस्योत्कृष्टस्थितिवन्धः संख्येयगुण इत्यादिकं प्रतिकर्म प्राग्वत् स्वयमेव योज्यमिति ॥४७७॥ अथोक्तशेषमार्गणास्वेकयाऽऽययाऽऽहसत्तण्हं सव्वेसुएगिदियविगलपंचकायेसु। जेट्ठो विसेसअहियो यो सेसासु संखगुणो ॥४७८॥ (प्रे०) “सत्तण्ह" इत्यादि, सर्वेकेन्द्रियभेदेषु, सर्वेषु विकलेन्द्रियभेदेषु, सर्वेषु पृथिव्यादिवनस्पत्यन्तपञ्चकायसत्कभेदेष्वित्येवं पञ्चपञ्चाशन्मार्गणासु प्रत्येकं “सत्तण्ह" ति आयुवर्जानां सप्तमूलप्रकृतीनां प्रत्येकं 'ज्येष्ठः'-उत्कृष्टः स्थितिवन्धः "विसेसअहियो” ति स्तोक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy