________________
४०० ]
हाणे मूलपइबंधो [ मार्गणास्वायुर्वर्ज सप्तप्रकृतीनां स्वस्थाने
उक्कोसो ठिsबंधो असंखियगुणो मुणेयव्व ॥ ४७४ ॥
(०) "अट्ठण्ह "मित्यादि, ज्ञानावरणादिलक्षणानामन्तरायपर्यन्तानामष्टानामपि मूलप्रकृतीनां प्रत्येकं ‘ह्रस्वः’-जघन्यः स्थितिबन्धः "थोवो हवेज्ज" त्ति स्तोको भवेत् । " ताहिन्तो” तितेभ्यो ज्ञानावरणादीनां स्वकस्वकजघन्यस्थितिबन्धेभ्यः “उक्कोसो ठिइबंधो" त्ति ज्ञानावरणादीनां स्वीयस्वीयोत्कृष्टस्थितिबन्धोऽसंख्येयगुणो ज्ञातव्यः । अयम्भावः -ज्ञानावरणस्य जघन्यस्थितिबन्धोऽन्तर्मुहूर्तमात्रः, तस्यैवोत्कृष्टस्थितिबन्धस्त्वोघतस्त्रिंशत्कोटी कोटी सागरोपमप्रमाणः, इत्थं च भवति ज्ञानावरणस्य जवन्यस्थितिबन्धापेक्षया तस्यैवोत्कृष्टस्थितिबन्धोऽसंख्येयगुणः, अन्तर्मुहूर्तकालापेक्षया पल्योपमासंख्येय भागमात्रकालस्याऽप्यसंख्येयगुणत्वे त्रिंशत्सागरोपमकोटिकोटिकालस्य तु का कथा, सुतरामसंख्येयगुणत्वमिति भावः । इत्थमेव दर्शनावरणादीनां जघन्योत्कृष्टस्थितिबन्धपदद्वयस्याप्यबहुत्वं पृथक् पृथग् द्रष्टव्यम्, स्वस्थानाल्पबहुत्वस्य प्रस्तुतत्वात् ।
तथा - ज्ञानावरणस्येव दर्शनावरणा-ऽन्तरायकर्मणोः प्रत्येकं जघन्यस्थितिबन्धः स्तोकः, स चान्तर्मुहूर्तप्रमाणः, ततः पुनस्तयोरेवोत्कृष्टस्थितिबन्धोऽसंख्येयगुणः, त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् । वेदनीयस्य जघन्यः स्तोकः, स च द्वादशमुहूर्तप्रमाणः, ततस्तस्यैवोत्कृष्टः स्थितिबन्धोऽसंख्येयगुणः पूर्ववत् त्रिंशत्कोटीकोटी सागरोपमप्रमाणत्वात् । आयुषो जघन्यः स्तोकः, स चान्तर्मुहूर्त प्रमाणः, ततस्तस्यैवोत्कृष्टोऽसंख्येयगुणः, त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात् । नामगोत्रयोः प्रत्येकं जघन्यस्थितिबन्धः स्तोकः, स चाष्टमुहूर्तमानः, ततस्तयोरेवोत्कृष्टोऽसंख्येयगुणः, विंशतिकोटीकोटीसागरोपमप्रमाणत्वादिति । इत्थमेव मार्गणास्थानेष्वपि प्रत्येकं तत्तत्कर्मणोऽल्पबहुत्वं पृथक् पृथग्द्रष्टव्यम्, तत्र जघन्यस्थितिबन्धस्य स्तोकत्वं तु स्थितिबन्धस्य जघन्यपदगतत्वादेव विज्ञेयम्, उत्कृष्टस्थितिबन्धस्यासंख्येयगुणत्वादिकं तु प्राक् स्थितिबन्धप्रमाणद्वारोक्तजघन्योत्कृष्ट स्थितिबन्धप्रमाणद्वारेणोपपादनीयमिति ॥४७४ ॥
तदेवं प्रतिकर्म जघन्योत्कृष्टस्थित्योः स्वस्थानाल्पबहुत्वमोघतोऽभिधाय साम्प्रतमादेशतोऽभिधित्सुरादौ तावत्सप्तप्रकृतिविषयं तदाहपरतिग-दुपणिंदियतस-पणमणवयणेसु काय उरलेसु । वेअतिग- कसायचउग-गाणचउग-संयमेसु च ॥४७५ ॥ समइअ - छेअ-तिदरिसण-सुइल-भविय सम्म खड़-उवसमेसु । सणिम्मि तहाऽऽहारे सत्तरह गुरू असंखगुणो ||४७६ ॥
(प्रे०) “णरतिगे” इत्यादि, सूचनात्सूत्रमितिकृत्वा 'णरतिग' इत्यनेनाऽपर्याप्तभेदवर्जास्त्रयो मनुष्यगतिमार्गणाभेदा गृह्यन्ते । कुतः ? स्थितिबन्धप्रमाणद्वारोक्तार्थानुसारेणानन्तरं वक्ष्यमाणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org