________________
Sजघन्यानुत्कृष्टस्थितिबन्धकाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
अथ शेषमार्गणास प्रस्तुतपदत्रयविषयमायुर्वन्धकाल्पबहुत्वमाह-साक्कोसाए आउस्सऽप्पा तओ जहण्णाए । ताहिन्तो सेसाए ठिअ कमसो असंखगुणा ||४७३ ॥
I
(प्रे०) “सेसारुक्कोसाए" इत्यादि, उक्तशेषासु निरयगत्योघादिद्विनवतिमार्गणासु प्रत्येकमायुष उत्कृष्टायाः स्थिते: "पा" त्ति अकारस्य दर्शनाद् "अप्पा" त्ति सर्वापाः बन्धका इति शेषः । ततो जघन्यायाः स्थितेर्वन्धकास्ततश्च शेषाया अजघन्यानुत्कृष्टायाः स्थितेः क्रमशोऽसंख्यगुणा इति । शेषमार्गणास्त्विमा:- अष्टौ नरकगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, मनुयौघा पर्याप्तमनुष्य भेदौ, देवगत्योघ - सहस्रारकल्पान्ता देवगतिसत्का द्वादश भेदाः, नव विकले - न्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः पृथिव्यप्तेजोवायुकायानां प्रत्येकं सप्त सप्त भेदा इतिकृत्वाऽष्टाविंशतिर्भेदाः, त्रयः प्रत्येकानभेदाः, त्रयस्त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रियकाययोग - स्त्री वेद-पुरं वेद-विभङ्गज्ञान- देशसंयम-चक्षुर्दर्शन- तेजः पद्मलेश्या-सासादन-संज्ञि-मार्गणाश्चेति ।
एतासु प्रत्येकमुत्कष्टपदेऽसंख्येया आयुर्वन्धकास्तत्राप्यसंख्येयबन्धकराशिर्यथाऽजघन्यानुत्कृष्टस्थितिकान्धार्ह स्तथोत्कृष्ट स्थितिकायुर्वन्धा जघन्यस्थितिकायुर्वन्धाश्च जीवा असंख्येया एव, विहाय मनुष्यौध- देशसंयम- तेजः - पद्मलेश्या सासादनमार्गणाः । एतत्तु परिमाणद्वारणैव गतार्थम्, केवलं तस्यां तस्यां निरयगत्योघादिमार्गणायां त्रिविधबन्धकानां प्रत्येकमसंख्येयत्वेऽप्युत्कृष्टस्थितिकायुर्वन्धकानां स्तोकत्वं तु सर्वसुलभजघन्याबाधानान्तरियकजघन्यस्थितिकायुर्वन्धापेक्षया उत्कृष्टाबाधाऽविनाभान्युत्कृष्ट स्थिति कायुर्वन्धस्य सुदुर्लभत्वात् । इत्थञ्चोत्कृष्ट स्थितेर्वन्धका जघन्य स्थितिकायुबन्धकेभ्योऽसंख्येयगुणहीनाः प्राप्यन्ते, किञ्च पञ्चेन्द्रियतिर्यगोघादिमार्गणासु यावदापूर्जघन्यस्थितिकायुस्त्वेन वध्यते तावदायुषां जीवानां बहुत्वात्ताहगायुर्वन्धका अपि लोके बहवो लभ्यन्ते, एवं यावदायुरुत्कृष्टस्थितिकायुष्त्वेन बध्यते तावदायुषां जीवानां स्तोकत्वात् तादृशायुषो बन्धका अपि प्रकृतमार्गणासु स्तोका असंख्येयगुणहीनाः सम्पद्यन्ते । तृतीयपदे तु बन्धप्रायोग्यस्थितिबन्धस्थानानामेवासंख्येयगुणत्वादजघन्यानुत्कृष्टस्थितेर्वन्धका जघन्यस्थितिकायुर्वन्धकेभ्योऽसंख्येयगुणा इति सुगममसंख्येयगुणत्वमिति ॥ ४७३ ||
तदेवं समाप्तमायुष उत्कृष्टस्थित्यादिपदत्रयमपेक्ष्य बन्धकाल्पबहुत्वमादेशतोऽपि तत्समाप्तौ च समाप्तमुत्कृष्टादिस्थितिबन्धपदत्रयापेक्षं बन्धकाल्पबहुत्वम् तस्मिंश्च समाप्ते गतं बन्धकपरमाणाल्पबहुत्वम् ।
अथ स्वस्थान- परस्थानभेदभिन्नस्थितिबन्धपरिमाणाऽल्पबहुत्वभणनावसरः । तत्र ज्ञानावरणादीनां स्वस्थानाल्पबहुत्वे प्रथमं तावज्जघन्योत्कृष्टस्थितिबन्धपदद्वयमधिकृत्याभिधित्सुरोघत आहअहं oिsबंधो हस्सो थोवो हवेज्ज ताहिन्तो ।
Jain Education International
9
[ ३९९
For Private & Personal Use Only
www.jainelibrary.org