________________
३९८ ]
Mirror मूलपइबंधो
[ मार्गणास्वायुषो जघन्योत्कृष्टासन्तोऽपि पञ्चेन्द्रियसत्कमायुर्ब्रघ्नन्तस्तेऽसंख्येया एव लभ्यन्ते, न पुनः पञ्चेन्द्रियपरिमाणादधिका, तथा चाल्पत्वमपि तिर्यग्गत्योघादिमार्गणावदेवोपपद्यत इति ।।४६७-४६८-४६९॥ अथ मार्गणान्तरेषु प्रकृताल्पबहुत्वमाह
पज्जमणुस-मणुसीसु आहारदुगा-ऽऽणताइदेवेसु । मणणाण-संयमेसु समइअ - छेअ - परिहारेसु ॥४७०॥ सुइल - खइएस थोवा उक्कोसाए ठिईअ हस्साए । संखेज्जगुणा तत्तो इयराअ ठिईअ संखगुणा ||४७१ ॥
(प्रे०) “ रज्जमणुसे”त्यादि, पर्याप्तमनुष्य मानुषीमार्गणयोराहारका ऽऽहारकमिश्रकाययोगा-ऽऽनतकल्पादि सर्वार्थ सिद्ध विमानान्तदेवगतिभेदेषु, मनः पर्यवज्ञान- संयमौघमार्गणयोः, सामायिकछेदोपस्थापन - परिहारविशुद्धिकसंयममार्गणासु शुक्ललेया--क्षाधिकसम्यक्त्वमार्गणयोः प्रत्येकं "थोवा" ति स्तोका बन्धकाः । करयाः स्थितेरित्याह - "उक्कोसाए ठिईअ" त्ति प्रकृतत्वादायुष उत्कृष्टायाः स्थितेरित्यर्थः । “हस्साए संखेज्जगुणा तत्तो" त्ति तत आयुपः 'ह्रस्वायाः' - जघन्यायाः स्थिते: संख्येयगुणाः, बन्धका इति गम्यते । "इयराअ ठिईअ संखगुणा" त्ति अनन्तरोक्तजघन्योत्कृष्टस्थित्यपेक्षयेतरा याऽजघन्यानुत्कृष्ट स्थितिस्तस्या: संख्येयगुणा बन्धका इत्यर्थः । न च भवतु पर्याप्तमनुष्यादिसंख्येयजीवराशिकासु मार्गणात्कृष्टादिस्थितिबन्धकानां यथोत्तरं संख्येयगुणत्वम्, कथं पुनरसंख्येयजीवराशिकेष्वानतप्रभृतिदेवभेदष्वपि तेषां यथोत्तरं संख्येयगुणत्वमेवेति वाच्यम् । यत आनत कल्पादिष्वसंख्येयजीव राशिकेष्वप्यायुबन्धका एकस्मिन् समये संख्येया एव लभ्यन्ते, एतच्च प्रागनेकश उक्तं भावितं च ततश्च यथोत्तरं संख्येयगुणत्वमेव युज्यते, न त्वसंख्येयगुणत्वमिति ॥ ४७०-४७१ ।।
1
णातिगे ओहिम्मिय सम्मत्ते वेअगे य आउस्स ।
पज्जमणुसव्व णेया वरियराए असंखगुणा ||४७२ ॥
(प्रे० ) " णाणतिगे" इत्यादि, मति श्रुता - ऽवधिज्ञानमार्गणारूपे ज्ञानत्रिके, अवधिदर्शनमार्गणायाम् । च: पादपूयै । "समत्ते वेअगे य" त्ति, सम्यक्त्वौघमार्गणायां वेदकसम्यक्त्वमार्गणायां चेत्यर्थः । एतासु किमित्याह - “आउस्से "त्यादि, आयुकर्मणः पर्याप्तमनुष्यमार्गणावज्ज्ञातव्याः, जघन्यादिस्थितीनां बन्धका इति शेषः । किं सर्वथा तथैव ज्ञातव्या, अस्ति वा कश्चिद्विशेषः ? इत्यतो विशेषं दर्शयन्नाह - "णवरियराए असंखगुणा" ति द्वितीयपदे जघन्यस्थितेर्वन्धकाः संख्येrगुणा इत्युक्त्वा तृतीयपदे इतरस्या अजघन्यानुत्कृष्टस्थितेर्वन्धका असंख्यगुणा वक्तव्याः, न पुनस्तद्वत्संख्येयगुणा इत्यर्थः । सुगमं चेदम् मतिज्ञानादिप्रस्तुतमार्गणासु तु प्रत्येकमेकस्मिन् समय उत्कृष्टतोऽसंख्येयानामायुर्वन्धकानां लाभादिति ॥४७२ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org