________________
-ऽजघन्यानुत्कृष्टस्थितिबन्धकाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
तिरिये सव्वेगिंदिय- णिगोअ-वणकायु-रालियदुगेसु । णपुम- चउकसायेसु दुअणाणा - ऽयत अचक्खुसु ॥४६७॥ असुहतिलेसासु तहा भवि यियरा - SSहार-मिच्छ- अमणेसु ं । उस्क्कोसाए ठिई होअन्ति सव्वऽप्पा ||४६८ ॥ तत्तो जहण्णगाए ठिईअऽणंतगुणिया मुणेयव्वा । ताहिन्तो अण्णाए ठिईअ या असंखगुणा ||४६९ ॥
(प्रे०) “तिरिये सव्वेगिंदिये" त्यादि, तिर्यग्गत्योघमार्गणायां तथा सर्वशब्दस्यैकेन्द्रियनिगोदयोः प्रत्येकं योजनात् सर्वैकेन्द्रिय- सर्वनिगोद-वनस्पत्योघभेद -- काययोगसामान्यभेदौ-दारिकौदारिकमिश्रकाययोगमार्गणासु, नपुंसकवेद- चतुः क्रोधादिकषायमार्गणासु, मत्यज्ञान - श्रुताज्ञान-ऽसंयमाऽचक्षुर्दर्शनमार्गणासु, कृष्णाद्यशुभत्रिलेश्यामार्गेणासु, तथाशब्द उक्तानुक्तसमुच्चये, तत्रानुक्तमार्गणा आह-“भवियियराहारे" इत्यादिना, भव्यमार्गणायां, तदितरस्यामभव्य मार्गणायामाहारिमार्गणायां मिथ्यात्वा-ऽसंज्ञिमार्गण योश्चेत्यर्थः । एतासु षट्त्रिंशन्मार्गणासु किमित्याह - "आउस्सुकोसाए" इत्यादि, आयुप उत्कृष्टायाः स्थितेः " सव्वप्पा" त्ति सर्वाल्पा भवन्ति, बन्धका इति शेषः।‘“तत्तो” त्ति तेभ्योऽनन्तरोक्तोत्कृष्ट स्थितिबन्धकेभ्यः "जहण्णगाए ठिईअ" त्ति आयुषो जघन्यैव जघन्यका तस्या जघन्यकायाः स्थिते: 'णंतगुणिया मुणेयव्व' त्ति अनन्तगुणिता ज्ञातव्याः, बन्धका इत्यत्रापि वाक्यशेषः । “ताहिन्तो” त्ति तेभ्यो जघन्यस्थितिबन्धकेभ्यः "अण्णाए ठिईअ” त्ति उक्तान्यस्याः स्थितेः, तत्रोक्त स्थितिर्जघन्या उत्कृष्टा च, अतस्तदन्या याऽजघन्यानुत्कृष्टस्थितिस्तस्या अजघन्यानुत्कृष्टस्थितेरित्यर्थः । तस्याः कियन्त इत्याह- “ णेया असंखगुणा" तिबन्धका असंख्यगुणा ज्ञेयाः ।
[ ३९७
तत्रैकेन्द्रियसत्काः सप्त, निगोदवनस्पतिकायसत्काः सप्तेति चतुर्दशभेदाः वनस्पतिकायौधभेदश्चेत्येतान् पञ्चदश भेदान् मुक्त्वा शेषमार्गणाभेदेष्वायुष उत्कृष्टस्थितेर्बन्धकाः कतिपयपञ्चेन्द्रिया एव, ते चाऽसंख्या इतिकृत्वा स्तोकतयाऽऽदौ गृहीताः । जघन्य स्थितेर्बन्धकास्त्वेकेन्द्रिया अपि भवन्ति, ते चानन्ता इतिकृत्वा पूर्वोक्तेभ्योऽनन्तगुणा उक्ताः । अजघन्यानुत्कृष्टस्थितेर्बन्धका स्त्वनन्ता अपि पूर्ववदसंख्यातानां नानास्थितिबन्धस्थानानां निर्वर्तका गृह्यन्ते, ते चासंख्यातेषु भिन्नभिन्नसमये - वायुर्वन्धप्रारम्भका अप्येकसमये बन्धकतया प्राप्यन्ते, जघन्यस्थितेर्बन्धकास्त्वेकसामायिका एव प्राप्यन्त, तथा च सति जघन्यस्थितिबन्धकेभ्योऽजघन्याऽनुत्कृष्टस्थितिबन्धका असंख्यगुणा एव सम्पद्यन्त इति तथैवोक्ताः । एवमुत्तरत्राप्यजघन्यानुत्कृष्टस्थितिबन्धकविषयेऽसंख्येयगुणत्वं विभावनीयमिति । एकेन्द्रियादिषु पञ्चदशमार्गणास्वप्येवमेव, नवरमायुष उत्कृष्टस्थितेर्बन्धका एकेन्द्रियाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org