________________
३९६ ]
बंधाणे मूलपडिठिइबंधो [ मार्गणास्वायुषो जघन्यो -त्कृष्टा
,
कालस्तु निरयगत्योघादिप्रस्तुतपञ्चमार्गणासु समयद्वयमात्रः, तथा च सति प्रथमसमयजघन्यस्थितिबन्धप्रारम्भकाः, अनन्तरद्वितीयसमये जघन्यस्थितिबन्धस्य प्रारम्भकाश्चेत्येत एव कस्मिँश्रिदेकस्मिन् समये युगपज्जघन्यस्थितिबन्धकतयाऽऽप्यन्ते, न पुनस्तृतीयादिसमयजघन्यस्थितिबन्धप्रारम्भकैः समं प्रथमसमयप्रारम्भकाः । कुतः ? प्रथमसमये जघन्यस्थितिबन्धस्य प्रारम्भकाणां जघन्यस्थितिबन्धस्य तृतीयसमयं यावदप्रवर्तनात् तृतीयसमये तेषामजघन्यस्थितिबन्धस्यैव प्रवर्तनादितिभावः । उत्कृष्टस्थितिबन्धकतया त्वसंख्येय समयेषूत्कृष्ट स्थितिबन्धप्रारम्भकाणामप्येकसमये सञ्चयो लभ्यते । कुतः ? विवक्षिते प्रथमसमये, एवं द्वितीयादिसमयेषु चोत्कृष्टस्थितिबन्धप्रारम्भकाणामुत्कृष्टस्थितेरुत्कृष्टबन्धकालान्तर्मुहूर्तं यावदुत्कृष्टस्थितेर्वन्धकतयाऽवस्थानस्य सम्भवात्, तेच विवक्षितप्रथमसमयारब्धोत्कृष्टस्थितिबन्धस्य चरमेऽसंख्याततमे समये बहवः सम्पद्यन्ते, यतः प्रथमादिसमयेषु तैस्तैरारब्ध उत्कृष्टस्थितिबन्धोऽद्यापि चरम समयं यावत्तेषां प्रवर्तते । इत्येवमसंख्यसमयेषूत्कृष्टस्थितिबन्धस्य प्रारम्भका एकस्मिन् समय उत्कृष्ट स्थितेन्धकतया प्राप्यन्ते, जघन्यस्थितिबन्धस्य प्रारम्भकास्तु द्विसामयिका एव । न च तावन्मात्रम्, किन्तु यत उत्कृष्टः स्थितिबन्धः सर्वेषां नारकाणां सम्भवति, जघन्यस्त्वसंज्ञिपञ्चेन्द्रियेभ्य आगतानां भवप्रथमसमयद्वयवर्तिनां केषाञ्चिदेव, ततोऽपि सुतरां प्रकृतपञ्चमार्गणायां जघन्यस्थितेर्वन्धकाः सर्वस्तोकाः प्राप्यन्ते, उत्कृष्ट स्थितेर्वन्धकास्तु तेभ्योऽसंख्येयगुणा इति ।
,
शेषसहस्रारान्तदेवगतिभेदेषु, षट्षूक्तशेषनरकगतिभेदेषु, वैक्रिय-तन्मिश्रकाययोगमार्गणयोश्च प्रत्येकं जघन्यस्थितिबन्धकाः सम्यग्दृष्टयो जीवाः, उत्कृष्टस्थितेर्वन्धकास्तु मिथ्यादृष्टयः, एतासु मार्गणासु सम्यग्दृष्टिभ्यो मिथ्यादृष्टयो जीवा असंख्यगुणाः सन्ति समग्राणामपि सम्यग्शां पल्योपमाऽसंख्यभागगतसमयराशिप्रमाणत्वात् प्रकृतदेवनारकाणां तु केषाञ्चन श्रेण्यसंख्यभागगतनभःप्रदेशराशितुल्यत्वात् केषाञ्चित्तु तदधिकत्वाच्च । इत्थञ्च प्रकृताल्पबहुत्वमपि यथोक्तं सम्पद्यत इति । मिश्रदृष्टिमार्गणायामपि सम्यक्त्वाभिमुखजीवापेक्षयाऽसंख्येयगुणानां मिथ्यात्वाभिमुखानां सद्भावमपेक्ष्य जघन्यस्थितेर्वन्धकपरिमाणादुत्कृष्ट स्थितेर्वन्धकपरिमाणमुत्कृष्टपदेऽसंख्येयगुणं ज्ञेयम् कथम् ? ततद्गुणस्थानाभिमुखानामेव तत्तज्जघन्योत्कृष्ट स्थितिबन्धस्वामित्वात् । शेषमार्गणासु तु प्रत्येकं स्थितिबन्धकजीवानामसंख्येयानां सद्भावेऽपि सप्तकर्म सत्कजघन्यस्थितेर्वन्धकास्तु पर्याप्तमनुष्या एव, ते च संख्येयाः, उत्कृष्टस्थितेर्बन्धकास्तु तिर्यगादयोऽपि ते चासंख्येयाः, एवं च स्फुटमुत्कृष्ट स्थितेर्बन्धकानामसंख्येयगुणत्वम् | अजघन्यानुत्कृष्टस्थितेर्बन्धकानाम संख्येयगुणत्वं तु सर्वासु मार्गणासु प्राग्वद्भावनीयमिति ॥ ४६६॥
तदेवमभिहितमायुर्वर्जानां जघन्यो-त्कृष्ट तदितरस्थितिबन्धपत्रयापेक्षया बन्धकाल्पबहुत्वमादेशतः । साम्प्रतमवशेषस्याऽऽयुषस्तदभिधातुकाम आह—
Jain Education International
ܕ
For Private & Personal Use Only
www.jainelibrary.org