________________
जघन्योत्कृष्टतदितरस्थितिबन्धकाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ३९५
Sजघन्यानुत्कृष्टायाः स्थितेर्बन्धका अनन्तगुणा ज्ञेयाः । सुगमं चैतद्, यतो जघन्यस्थितेर्वन्धकाः क्षपकश्रेणिगता इति कृत्वा संख्येया एव, उत्कृष्टस्थितेर्यन्धकास्तुः पर्याप्ताः संज्ञिनस्तिर श्वोऽपि, ततश्चासंख्येयाः, शेषास्त्वजघन्यानुत्कृष्टस्थितेबन्धका एकेन्द्रियादयोऽपि ते चानन्ताः, इत्येवमल्पबहुत्वमपि तदपेक्षया यथोक्तमेव प्राप्यत इति ॥ ४६३-४६४।। अपगतवेदसम्परायसंयममार्गणयोराह—
गयवेए सत्तण्हं सुहुमे छण्हं कमेण संखगुणा । जेडाअ जहण्णाए अलहुगुरूए मुणेयव्वा ॥ ४६५ ॥
(प्रे०) “गयवेए सत्तण्हं” इत्यादि, सुगमम्, नवरं "सत्तण्हं" ति आयुर्वर्जानाम्, “छण्हं” ति मोहनीयायुर्वर्जानाम्, “कमेण" त्ति यथाक्रमम्, तेन च ज्येष्ठायाः स्थितेर्वन्धकापेक्षया क्रमोक्ताया जघन्यायाः स्थितेर्वन्धकाः संख्येयगुणाः, तेभ्योऽपि क्रमप्राप्ताया अजघन्योत्कृष्टायाः स्थितेर्वन्धकाः संख्येयगुणा इति ||४६५ ||
अथ शेषमार्गणासु प्रकृतपदत्रयसत्कबन्ध काल्पबहुत्वमाह
सेसासु सत्तण्हं जहण्णगाए ठिईअ सव्वऽप्पा | कमसो असंखियगुणा उक्कोसाए तदियरा ॥ ४६६ ॥
(प्रे०) “सेसासु” इत्यादिना, उक्तशेषासु षट्पञ्चाशन्मार्गणासु सप्तमूलप्रकृतीनां प्रत्येकं जघन्यकायाः स्थितेः सर्व्वाल्पा: “कमसो असंखियगुणा" त्ति 'क्रमशः ' -गाथान्यस्तक्रमादसंख्येrगुणाः । कयोरित्याह - " उक्कोसाए तदियराए" ति तासामेवोत्कृष्टायाः स्थितेस्तथा ताभ्यामनन्तरोक्ताभ्यां जघन्योत्कृष्ट स्थितिभ्यामितरस्याः - तदितरस्याः, अजघन्यानुत्कृष्टायाः स्थितेरित्यर्थः । तत्र शेषमार्गणास्त्विमा:- अष्टौ नरकगतिभेदाः, अपर्याप्तमनुष्यभेदः, देवौघ- भवनपत्यादिसहस्रारकल्पान्ता द्वादश देवगतिभेदाः, पञ्चेन्द्रियौघ-तत्पर्याप्त-त्रसौघ-तत्पर्याप्त-पञ्चमनोयोगभेद - पञ्चवचोयोगभेद - वैक्रिय - वैक्रियमिश्रकाययोग - स्त्रीवेद - पु' वेद-मति श्रुताऽवधिज्ञान-विभङ्गज्ञान- देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन तेजः-पद्म-शुक्लेश्या-सम्यक्त्वौघ- क्षायिक क्षायोपशमिकौ-पशमिकसम्यक्त्व- सम्यग्मिथ्यात्व - सास्वादन - संज्ञिमार्गणाश्चेति । तत्र नरकगत्योघ- प्रथम पृथिवीनरकभेद- देवौघ- भवनपति - व्यन्तरभेदरूपासु पञ्चमार्गणासु जघन्यस्थितिबन्धस्य विग्रहगतौ द्विसमयमात्रं सम्भवात् तद्भन्धकतया द्विसमयसञ्चिता जीवा लभ्यन्ते, उत्कृष्टस्थितेर्वन्धकास्त्वन्तमुहूर्तसञ्चिताः, तथा च सत्युत्कृष्टस्थितेर्वन्धका जघन्यस्थितिबन्धकापेक्षयाऽसंख्येयगुणा भवन्ति ।
अयम्भावः - प्रतिसमयं नव्यानां नव्यानां स्थितिबन्धारम्भकाणां तत्तज्जघन्यादिस्थितेबन्धकतया तावदवस्थानं सम्भवति यावत्तदीयोत्कृष्टबन्धाद्धायाश्चरमसमयः, जघन्यस्थितेरुत्कृष्टबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org