SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३९४ ] बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्त्रायुर्वर्जसप्तप्रकृतीनाम् एतासु दशमार्गणासु किमित्याह-"सत्तण्ह जहण्णाए" इत्यादि, आयुर्वर्जसप्तप्रकृतीनां जघन्यायाः स्थितेः स्तोकाः, ततः 'गुरोः'-उत्कृष्टायाः स्थितेः संख्येयगुणाः, तेभ्यश्चाजघन्यानुत्कृष्टायाः स्थितेः संख्येयगुणा भवन्ति । बन्धका इति सर्वत्र गम्यते, तद्विषयकाल्पबहुत्वस्यैव प्रस्तुतत्वात् । सुगमं चैतदल्पबहुत्वम् । न च जघन्यस्थितिबन्धस्थानापेक्षयाऽजघन्यानुत्कृष्टस्थितिबन्धस्थानानामत्राप्यसंख्येयगुणत्वात्तद्वन्धकाः कथमसंख्येयगुणा नोच्यन्त इत्यपि वक्त युज्यते । यत एतासु प्रत्येकमुत्कृष्टतोऽपि संख्येयानां जीवानामेव लाभादेकस्मिन् समये बन्धप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयान्येव सन्ति, न त्वसंख्येयानि, ततश्च प्रागुक्तनीत्या संख्येयगुणत्वमेवोपपद्यतेऽजघन्यानुत्कृष्ट स्थितिबन्धकानामिति ॥४६०-४६१॥ आनतादिशेषदेवगतिभेदेष्वाह सत्तण्हुकोसाए थोवा संखगुणिया जहण्णाए। इयराअ असंखगुणा सेसाणतआइदेवेसु॥४६२॥ (प्रे०) “सत्तण्हुक्कोसाए” इत्यादि, प्राग्वत्सप्तानां मूलप्रकृतीनां प्रत्येकमुत्कृष्टायाः स्थितेबन्धकाः स्तोकाः, तेभ्यो जघन्यायाः स्थितेर्बन्धकाः संख्येयगुणिताः, तेभ्यः “इयराअ" त्ति अनन्तरोक्ते ये जघन्योत्कृष्ट स्थिती ताभ्यामितरा याऽजघन्यानुत्कृष्टा स्थितिः सा इतरा स्थितिस्तस्या इतरस्याः स्थितेः “असंखगुणा" ति सुगमम् , बन्धका इति गम्यते । कासु मार्गणास्वित्याह-"सेसाणतआइदेषेसु” ति अनन्तरोक्ताश्चत्वार एकश्चेति पश्चाऽनुत्तरविमानसत्कान् देवगतिभेदान् विहाय ये शेषाः 'आनतादयः' -आनत-प्राणता-ऽऽरणा-ऽच्युत-वेयकनवकरूपास्त्रयोदश'देवाः-'देवगतिमार्गणाभेदास्तेष्वित्यर्थः । इयमत्र भावना-सम्यग्दृष्टि-मिथ्यादृष्टिद्विविधबन्थकेषु सत्सु सप्तानामुत्कृष्टस्थितेर्बन्धका मिथ्यादृष्टयो जघन्यस्थितेर्बन्धकास्तु सम्यग्दृशः, प्रकृतासु च त्रयोदशदेवगतिसत्कमार्गणासु प्रत्येकं मिथ्यादृष्टिदेवापेक्षया सम्यग्दृशो देवाः संख्येयगुणाः सन्ति, ततश्चोत्कृष्टस्थितिबन्धकापेक्षया जघन्यस्थितेर्बन्धका अपि संख्येयगुणा लभ्यन्ते । चरमपदेऽसंख्येयगुणत्वं तु प्राग्वदिति ॥४६२॥ काययोगादिदशमार्गणास्वाह कायु-रल-णपुसेसु कसायचउगे अचक्खु-भवियेसु। आहारे सतण्हं सव्वत्थोवा जहण्णाए ॥४६३॥ तत्तो उक्कोसाए ठिईअ खलु बंधगा असंखगुणा । अजहण्णुक्कोसाए ठिईअ णेया अणंतगुणा ॥४६४॥ (प्रे०) “कायुरल" इत्यादि, काययोगसामान्यो-दारिककाययोग-नपुसकवेदेषु, क्रोधादिकषायचतुष्के, अचक्षुर्दर्शन-भव्यमार्गणयोराहारिमार्गणायां च प्रत्येकं सप्तानां 'जहण्णाए" त्ति जघन्यायाः स्थितेवन्धकाः सर्वस्तोकाः, तेभ्य उत्कृष्टायाः स्थितेवेन्धकाः खल्वसंख्यगुणाः, तेभ्यो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy