________________
जघन्योत्कृष्टतदितरस्थितिबन्धकाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ३९३ ___(प्रे०) "णरे"त्यादि, नरगत्योघभेदे, सर्वार्थसिद्धवर्जाश्चत्वारोऽनुत्तरविमानभेदास्तेषु, तथा सर्वशब्दस्य प्रत्येकं योजनात् सर्व एकेन्द्रियभेदाः, सर्वे पृथिव्यादिवनस्पतिकायान्तपञ्चकायमार्गणासत्कभेदाः, सर्वे विकलेन्द्रियभेदा इत्येतासु पष्टिमार्गणास्वित्यर्थः । एतासु किमित्याह-“सत्तण्ह जहण्णाए” इत्यादि, आयुर्वर्जानां सप्तानां प्रकृतीनां प्रत्येकं जघन्यायाः स्थितेवन्धकाः स्तोकाः "तत्तो" ति तेभ्यः “संखेजगुणा उक्कोसाए ठिए” ति तासामेवोत्कृष्टायाः स्थितेन्धकाः संख्येयगुणाः । कुतः ? इति चेद् , उच्यते, जघन्योत्कृष्टस्थितिवन्धयोः स्वामिनां विशुद्धिसंक्लेशापेक्षया पार्थक्येऽपि मिथ्यादृष्टित्वादिकमपेक्ष्य कालुचिन्मार्गणास सादृश्यं विद्यते । यास च मार्गणासु तेषां मिथ्यादृष्टित्वादिरूपेण साम्यं विद्यते, तासु तद्वन्धकानामनन्तत्वेन रूपेणाऽसंख्येयत्वादिरूपेण वातुल्यत्वेऽपि जघन्यस्थितेर्बन्धकापेक्षयोत्कृष्टस्थितेर्बन्धकाः संख्येयगुणा एव लभ्यन्ते । कुतः सम्यग्दृष्टयादिरूपेण सजातीयजीवसमुदाये जघन्यसंक्लेशयुतजीवापेक्षयोत्कृष्टसंक्लेशपरिणतजीवानामुत्कृष्टतः संख्येयगुणानामेव लाभात् । प्रकृते च सर्वार्थसिद्धवर्जेऽनुत्तरविमानचतुष्के सर्वेषां जीवानां सम्यग्दृष्टितया जघन्याया उत्कृष्टायाश्च स्थितेर्बन्धका अपि सम्यग्दृष्टय एव, तथा च सत्युक्तनीत्या जघन्यसंक्लिष्टाध्यवसनानां जीवानामपेक्षयोत्कृष्टसंक्लिष्टाध्यवसायानां जीवानां संख्येयगुणत्वेनोत्कृष्टसंक्लेशनिर्वर्तनीयाया उत्कृष्टस्थितेर्बन्धका अपि संख्येयगुणा लभ्यन्ते । इत्थमेवैकेन्द्रियादिपञ्चपञ्चाशन्मार्गणास्वपि केवलानां मिथ्यादृष्टि जीवानामेव सद्भावेन जघन्यस्थितेर्बन्धकापेक्षयोत्कृष्टस्थितेर्बन्धकाः संख्येयगुणा लभ्यन्ते । मनुष्यगत्योघमार्गणायां यद्यपि जघन्यस्थितेर्बन्धका उत्कृष्टस्थितेर्बन्धकाश्च भिन्ना भिन्नाः सम्यग्दृष्टयो मिथ्यादृष्टयश्व,तथाऽपि ते पर्याप्ता एव, न पुनरपर्याप्ता अपि, पर्याप्तमनुष्यास्तूत्कृष्टतोऽपि संख्यया भवन्ति, अतस्तयोर्वन्धकेष्वपि संख्येयगुणतारतम्यमेव प्राप्यते, न पुनस्तदधिकम् , संख्येयजीवेषु तदधिकस्याऽसंख्येयगुणादितारतम्यस्याऽसम्भवादिति । “ताहिन्तो" इत्यादि, तेभ्योऽनन्तरोक्तोत्कृष्टस्थितिबन्धकेभ्यः शेषा अजधन्यानुत्कृष्टस्थितेर्वन्धका असंख्येयगुणा ज्ञेयाः, अप्राप्यजधन्यानुत्कृष्टस्थितिबन्धान्तःप्रविष्टानां स्थितिबन्धविकल्पानामेकविकल्परूपजघन्यस्थितिवन्धापेक्षयाऽसंख्येयगुणत्वादिति हेतुर्द्रष्टव्य इति ॥४५८-४५९॥ अथान्यत्राह
पज्जमणुस-मणुसीसुआहारदुगे तहा य सव्वत्थे। मणणाण-संयमेसु समइअ-छेअ-परिहारेसु॥४६०॥ सत्तण्ह जहण्णाए थोवा तत्तो गुरूअ संखगुणा।
अजहण्णुक्कोसाए ठिईअ होअन्ति संखगुणा ॥४६१॥ (प्रे०) "पज्जमणुसे"त्यादि, पर्याप्त मनुष्य-मानुषीमार्गणयोराहारका-ऽऽहारकमिश्रकाययोगरूप आहारकद्विके। तथाकारचकारी समुच्चये । 'सर्वार्थ'-सर्वार्थसिद्धविमानमार्गणाभेदे, मनःपर्यवज्ञान-संयमोघमार्गणयोः, सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयममार्गणासु चेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org