SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३९२ ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्ज सप्तकर्मणाम् तदेवमुक्तमोघतः । अथादेशतो दिदर्शयिषुरादौ तावदायुर्वर्जानां सप्तानामाहतिरि-युरल -मीस-कम्मण-दुअणाणा-यत-तिअसुहलेसासु । अभविय - मिण्छत्सु अमणा - Sणाहारगेसु च ॥४५५॥ सत्तण्डुकोसाए थोवाऽणंतगुणिया जहण्णाए । अजहण्णुकोसाए ठिईअ या असंखगुणा ||४५६ ॥ (प्रे०) “तिरियुरलमोसे” त्यादि, तिर्यग्गत्यो धौ-दारिकमिश्रकाययोग-कार्मणकाययोगमत्यज्ञान - श्रुताज्ञाना-संयम कृष्णादित्र्यशुभलेश्यास्वभव्य- मिथ्यात्वयोरसंज्ञ्य ऽनाहारकमार्गणयोश्चेत्यर्थः । एतासु त्रयोदशमार्गणासु किमित्याह - "सत्तण्हुक्कोसाए" इत्यादि, एतासु त्रयोदशमार्गणासु प्रत्येकमायुर्वजनां सप्तप्रकृतीनामुत्कृष्टायाः स्थिते: “थोवा" तिबन्धकाः स्तोकाः, "अणंतगुणिया जहण्णाए" त्ति सप्तानां जघन्यस्थितेर्बन्धकास्तु तेभ्योऽनन्तगुणिताः । कुतः ? प्रकृतमार्गणासत्कजघन्यस्थितिबन्धस्य बादरसाधारणवनस्पतिकायजीवानामपि भावात्, ते चानन्ताः, उत्कृष्टस्थितेर्वन्धकास्तु संज्ञिनोऽसंख्याता एवेति कृत्वा जघन्यस्थितेर्बन्धका अनन्तगुणा भवन्ति । "अजहण्णुक्कोसाए" इत्यादि, अजघन्यानुत्कृष्टस्थितेर्बन्धकास्तु जघन्यस्थितिबन्धकेभ्योऽसंख्यगुणा ज्ञातव्या इत्यर्थः । अत्राप्यसंख्मेयगुणत्वं श्रग्वद्भावनीयमिति ।। ४५५-४५६॥ अथान्यमार्गणास्वाह— जेट्टाअ जहण्णाए अलहुगुरूअ कमसो असंखगुणा । पंचिदियतिरियचउग-असमत्तपणंदियतसे ॥४५७॥ (प्रे०) " जेट्ठाअ" इत्यादि, प्रकृतसप्तप्रकृतीनां 'ज्येष्ठाया: ' - उत्कृष्टायाः, जघन्यायाः, अलघुगुरुस्थितेश्च क्रमशः "असंखगुणा" त्ति बन्धका असंख्यगुणाः । उत्कृष्टस्थितेः स्तोकाः, ततो जघन्यस्थितेरसंख्येयगुणाः, ततोऽजघन्यानुत्कृष्टायाः स्थितेरसंख्यगुणा इत्यर्थः । कासु मार्गणास्वित्याह-'पणिंदिये”त्यादि, पञ्चेन्द्रियतिर्यक्सत्केषु चतुर्षु भेदेषु, अपर्याप्त वाचकस्यासमाप्त शब्दस्य प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियमार्गणाभेदाऽपर्याप्तत्र सकायमार्गणाभेदयोरित्येवं समुदितासु सप्तमार्गणाविति ||४५७ ॥ अथाऽपरमार्गणास्वाह— णर-चउअणुत्तरेसु ं सव्वेगिंदि - पण काय-विगलेसु ं । सत्तरह जहण्णाए ठिईअ खलु बंधगा थोवा ||४५८ ॥ तत्तो संखेज्जगुणा उक्कोसाए ठिई ताहिन्तो । अजहण्णुक्कोसाए ठिईअ या असंखगुणा ॥ ४५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy