SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ओघतो जघन्योत्कृष्ठतदितरस्थितिबन्धकानाम् ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम् [ ३९१ असंख्येयगुणा इत्यर्थः । शेषमार्गणा इमाः-सर्वे नरकगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, मनुष्योघा-ऽपर्याप्तमनुष्यभेदौ, देवौधः, भवनपत्यादिसहस्रारकल्पान्तैकादशभेदाच, सर्व इन्द्रियमार्गणाभेदाः, पश्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौ-दारिकौ-दारिकमिश्र-वैक्रियकाययोग-स्त्री-पु-नपुंसकवेद-क्रोधादिकषायचतुष्क-मति-श्रुता-ऽवधिज्ञान-मत्यज्ञान-श्रुताज्ञान-विभंगज्ञाना--ऽसंयम-देशसंयमचारचक्षुरवधिदर्शन-शुक्लवर्जलेश्यापश्चक-भव्या-ऽभव्य-सम्यक्त्वौघ-क्षायोपशमिक-सासादन-मिथ्यात्व-संश्य-ऽसंख्या-ऽऽहारिमार्गणाभेदाश्चेति ॥४५१-४५२।। तदेवमुक्तं पदद्वयमपेक्ष्य बन्धकाल्पबहुत्वम् । साम्प्रतं जघन्यस्थितिरुत्कृष्टस्थितिरजघन्यानुत्कृष्टस्थितिरिति पदत्रयमपेक्ष्य तद्वन्धकानामल्पबहुत्वं प्रतिपादयितुमना आदावोधत आह सत्तण्ह बंधगाऽप्पा हस्साअ ठिईअ तो असंखगुणा। जेट्टाअ तो ठिईए अलहुगुरूए अणंतगुणा ॥४५३॥ आउस्सुकोसाए थोवाऽणंतगुणिया जहण्णाए। अजहण्णुकोसाए ठिईअ णेया असंखगुणा ॥४५४॥ (प्रे०) “सत्तण्ह बंधगाऽप्पा” इत्यादि, आयुर्वर्जानां 'ह्रस्वायाः'-जघन्यायाः स्थितेर्बन्धकाः 'अल्पाः'-स्तोकाः “तो” त्ति 'ततः'-अनन्तरोक्तेभ्यो जघन्यस्थितिबन्धकेभ्योऽसंख्यगुणा बन्धकाः । कस्या इत्याह-"जेहाअ" ति 'ज्येष्ठायाः'-उत्कृष्टायाः स्थितेः । “तो अलहुगुरूए" ति ततः 'अलघुगुरोः' -लघुगुरुभिन्नायाः स्थितेरित्यर्थः । “अणंतगुणा” ति अनन्तगुणाः बन्धका इत्यर्थः । तत्र मूलसप्तप्रकृतीनां जघन्यस्थितेर्बन्धकाः क्षपकश्रेणिगताः संख्याता एवेतिकृत्वा स्तोका उक्ताः, उत्कृष्टस्थितेबन्धकास्तु पर्याप्तसंज्ञिपञ्चेन्द्रियाः, ते चोत्कृष्टतोऽसंख्येयाः प्राप्यन्त इत्यतः पूर्वोक्तेभ्योऽसंख्येयगुणा दर्शिताः, अजघन्यानुत्कृष्टस्थितेर्बन्धकास्तु सूक्ष्मनिगोदपर्यन्ताः सर्वेऽपि, ते चानन्ता इतिकृत्वा चरमपदे तेऽनन्तगुणा अभिहिता इति । . अथ भणितशेषस्याऽऽयुकर्मणः प्रस्तुताल्पबहुत्वमाह-"आउस्सुक्कोसाए” इत्यादिना, आयुष उत्कृष्टायाः स्थितेर्बन्धकाः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्या एव, जघन्यस्थितेर्बन्धकास्तु निगोदादिजीवा अपीत्यत उक्तम्:-"बंन्धगाऽप्पा उक्साए ठिईअ"त्ति उत्कृष्टायाः स्थितेः 'अल्पाः' -स्तोकाः । “ऽणंतगुणिया जहण्णाअ" ति तेभ्योऽनन्तरोक्तभ्यो बन्धकेभ्यो जघन्याया स्थितेरनन्तगुणाः, बन्धका इति गम्यते । तेभ्योऽप्यजघन्यानुत्कृष्टायाः स्थितेवन्धका असंख्यगुणा ज्ञेयाः, यतो निगोदजीवानां जघन्याऽजघन्यस्थितिबन्धस्वामित्वेऽपि जघन्यस्थितिरेकस्थितिबन्धस्थानात्मिका, अजघन्या त्वसंखयेयस्थितिबन्धस्थानात्मिका, ततश्च कस्मिन्नपि समये जघन्यस्थितिबन्धकापेक्षयाऽजघन्यानुत्कृष्टस्थितिबन्धकसञ्चयोऽसंख्येयगुणो लभ्यत इति ॥४५३-४५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy