________________
३९० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो जघन्येतरस्थितिबन्धकानां शेषमार्गणास्वेकया गाथया प्रकृताल्पबहुत्वमाहकायु-रल-णपुसेसुकसायचउगे अचक्खु-भवियेसु।
आहारेऽणंतगुणा अवसेसासुअसंखगुणा ॥४५०॥ (प्रे०) “कायुरले” त्यादि, काययोगसामान्यौ-दारिककाययोग-नपुसकवेद-क्रोधादिकषायचतुष्का-ऽचक्षुर्दर्शन-भव्या-ऽऽहारिमार्गणासु प्रत्येकमनन्तगुणाः, सप्तानामजघन्यस्थितेवन्धका इत्यनुवर्तते, सप्तानां जघन्यस्थितेर्बन्धकाः स्तोकास्तेभ्यश्चेमेऽनन्तगुणा इत्यर्थाद्गम्यते । एवमुत्तरत्रापि बोद्धव्यम् । उक्तशेषमार्गणास्वाह-"अवसेसासु असंखगुणा” त्ति प्राग्वदवशेषासु मार्गणासु सप्तानां जघन्यस्थितेर्बन्धकाः स्तोकास्तेभ्योऽजघन्यस्थितेवन्धका असंख्येयगुणा इत्यर्थः । अवशेषमार्गणास्त्विमा अष्टचत्वारिंशदधिकशतम्-सर्वे नरकगतिभेदाः, सर्वे तिर्यग्गतिभेदाः मनुप्यौघा-ऽपर्याप्तमनुष्यभेदौ, सर्वार्थसिद्धविमानभेदवर्जाः शेषा एकोनत्रिंशद् देवगतिभेदाः, सर्व इन्द्रियमार्गणाभेदाः, तथैव सर्वे कायमार्गणाभेदाः, पञ्चमनोयोग-पञ्चवचोयोगौ-दारिकमिश्र-वैक्रियवैक्रियमिश्र-कार्मणकाययोग-स्त्री-पुवेद-मति-श्रुता-ऽवधिज्ञान-मत्यज्ञान-श्रुताज्ञान-विभंगज्ञान-देशसंयमाऽ-संयम--चक्षुर्दर्शना-ऽवधिदर्शन-कृष्णादिषल्लेश्या-ऽभव्य--सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकोपशमिक-सम्यग्मिथ्यात्व-सासादन-मिथ्यात्व-संज्य-ऽसंश्य-ऽनाहारकमार्गणाश्च । सुगममिति ॥४५०॥
तदेवमुक्तं सप्तानां मूलप्रकृतीनां प्रत्येकं जधन्याजघन्यस्थितिबन्धकपदद्वयाश्रयमल्पबहुत्वमादेशतः। अथाऽऽयुषस्तदादेशतः प्राह
पज्जमणुस-मणुसीसुआहारदुगा-ऽऽणताइदेवेसु। मणणाण-संयमेसु समइअ-छेअ-परिहारेसु ॥४५१॥ सुइल-खइएसु थोवा जहण्णगाए ठिईअ आउस्स ।
अलहूए संखगुणा असंखियगुणा उ सेसासु॥४५२॥ (प्रे०) “पज्जमणुसे” त्यादि, पर्याप्तमनुष्य--मानुष्या-ऽऽहारका-ऽऽहारकमिश्रकाययोगा. ऽऽनतकल्पादिसर्वार्थसिद्धविमानान्ताष्टादशदेवगतिभेद--मनःपर्यवज्ञान--संयमोघ--सामयिक-छेदोप-- स्थापन-परिहारविशुद्धिकसंयम-शुक्ललेश्या-क्षायिकसम्यक्त्वरूपास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमायुषो जघन्या एव जघन्यकास्तस्या जघन्यकायाः स्थितेः 'स्तोकाः' -अल्पाः, बन्धका इति प्रकरणाद्गम्यते, "अलहुए संखगुणा" ति अनन्तरोक्तभ्यो जघन्यस्थितिबन्धकेभ्यः अलघोः' -अजघन्यस्थितेर्बन्धकाः संख्येयगुणाः । अत्र हि प्रत्येकं सामयिकोत्कृष्टबन्धकपरिमाणस्यैव संख्येयत्वात्प्राग्वत्संख्येयगुणत्वं भावनीयमिति । उक्त शेषमार्गणास्वाह-"असंखियगुणा उ सेसासु" ति प्राग्वत्शेषासु चतुस्त्रिंशदुत्तरशतमार्गणारवायुषो जघन्यस्थितेर्बन्धकाः स्तोकास्तेभ्यस्तस्यैवाऽजघन्यस्थितेर्बन्धका
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International