________________
ओघतो जघन्येतरस्थित्योर्बन्धकानाम् ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ३८९ भेदाः, त्रयस्त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रियकाययोग-स्त्रीवेद-वेद-मतिश्रुता-ऽवधिज्ञान-विभङ्गज्ञान-देशसंयम-चक्षुदर्शना-ऽवधिदर्शन-तेजः पद्मलेश्या-सम्यक्त्वौघ-क्षायोपशमिक-सासादन-संज्ञिमार्गणाभेदाश्चेति ॥४४५-४४६॥
तदेवमुक्तमोधत आदेशतश्चाष्टानामपि प्रकृतीनामुत्कृष्टा-ऽनुत्कृष्टस्थित्योर्वन्धकानामल्पबहुत्वम् । साम्प्रतं जघन्या-ऽजघन्यस्थित्योवन्धकानामल्पबहुत्वं व्याजिहीषु रादौ तावदोघत आह
सत्तण्ह बंधगाऽप्पा लहूअ ताउ अलहूअऽणंतगुणा।
आउस्स लहूए ऽप्पा असंखियगुणा अहस्साए ॥४४७॥ (प्रे०) “सत्तण्ह बंधगाऽप्पा" इत्यादि, आयुर्वर्जानां मूलप्रकृतीनां बन्धकाः 'अल्पाः'स्तोकाः । कस्याः स्थितरित्याह-"लहू" ति 'लघोः'-जघन्यायाः स्थितेः । तेभ्यः “अलह" त्ति अजघन्यायाः स्थितेरनन्तगुणाः, बन्धका इत्यनुवर्तते । सुगमम् , क्षपकाणामेव जघन्यस्थितिबन्धकतया निगोदपर्यन्तानां जीवानामजघन्यस्थितिवन्धकतया च लाभादिति। आयुष आह-"आउस्से" त्यादिना, आयुषः 'लघोः'-जघन्यायाः स्थितेरल्पा:-स्तोकाः। “अहस्साए"ति तेभ्यो जघन्यस्थितिअन्धकेभ्य आयुषः 'अह्रस्वायाः' -अजधन्यायाः स्थितेरसंख्येयगुणा। उभयत्र बन्धका इति प्राग्वद्योज्यम्। अत्र जघन्यस्थितिकमायुःसूक्ष्मनिगोदादिसत्कमपि बध्यते, अतस्तद्वन्धका अप्यनन्ताः सम्पद्यन्ते । ते च शेषायुर्वन्धकेभ्योऽसंख्यभागगता इति भागद्वारे उक्तमेव, तथा चाजघन्यस्थितिकायुषो बन्धका असंख्यगुणा एव भवन्ति, न पुनरनन्तगुणाः । विशेषतस्तु तुल्यपरिमाणत्वेऽप्येकस्मिन् समयेऽसंख्येयानामेवस्थितिविशेषागां बन्धप्रायोग्यत्वादित्येवमत्रैवाल्पबहुत्वे प्रागुक्तहेतुनोह्यम् ।।४४७।।
अथाऽऽदेशतः प्रकृताऽल्पबहुत्वं विभणिषुरादौ तावदायुर्वजानामाह
पज्जमणुस-मणुसीसुसव्वत्था-ऽऽहारदुग-अवेएसु। मणणाण-संयमेसु समइअ-छेअ-परिहारसु॥४४८॥ सुहमम्मि य सव्वऽप्पा जहण्णगाए ठिईअ सत्तण्हं ।
तत्तो संखेज्जगुणा हुन्ति ठिईअ अजहण्णाए ॥४४९॥ (प्रे०) “पज्जमणुस” इत्यादि, प्राग्वत् पर्याप्तमनुष्य-मानुपी-सर्वार्थसिद्धविमानदेवगतिभेदा-ऽऽहारक-ऽऽहारकमिश्रकाययोगा-ऽपगतवेद--मनःपर्यवज्ञान--संयमौघ-सामायिक-छेदोपस्थापनपरिहारविशुद्धिक-सूक्ष्मसम्परायसंयमरूपासु द्वादशमार्गणासु प्रत्येकं “सव्वाप्पा" ति आयुर्वर्जानां सप्तानां प्रकृतीनां जघन्याया एव जघन्यकायाः स्थितेः सर्वाल्पाः, बन्धका इत्यनुवर्तते । “तत्तोसंखेज्जगुणा हुन्ति" ति तेभ्यो जघन्यस्थितिबन्धकेभ्यः संख्येयगुणाः भवन्ति । के ? "ठिहअ अजहण्णाए” त्ति अजघन्याः स्थितेर्बन्धका इत्यर्थः । सुगममिति ॥४४८-४४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org