________________
३८८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुष उत्कृष्टेतरस्थितिबन्धकानां हितम् । अक्षरार्थस्तु प्राग्वत् ततस्तिर्यग्गत्योधमार्गणायां, वनस्पतिकायौघमार्गणायां, सर्वेषु निगोदभेदेषु,सर्वेष्वेएकेन्द्रियभेदेषु,काययोगौ-दारिको दारिकमिश्रकाययोगमार्गणासु, नपुसकवेद-क्रोधादिकषायचतुष्कयोः, मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शन-कृष्णलेश्यामार्गणासु, नीललेश्या-कापोतलेश्या-भव्यमार्गणासु, अभव्य-मिथ्यात्वमार्गणयोः, असंख्या-ऽऽहारकमार्गणयोश्चेत्येतासु पट्त्रिंशन्मार्गणासु प्रत्येकमायुष उत्कृष्टायाः स्थितेन्धकाः स्तोका भवन्ति, “तत्तो" त्ति तेभ्यः "णुक्कोसाए” ति आयुषोऽनुत्कृष्टायाः स्थितेरनन्तगुणा ज्ञेयाः, बन्धका इत्यनुवर्तत इति । एतासु प्रत्येकं साधारणवनस्पतिकायिकानामपि समावेशेनायुषो बन्धकानामनन्तत्वेऽप्यायुष उत्कृष्टस्थितेबन्धकास्त्वसंख्येया एव । कस्मात् ? प्रकृतमार्गणासु बन्धप्रायोग्योत्कृष्टस्थितेर्वेदकानां जीवानां लोकेऽसंख्येयत्वेन तदधिकानामुत्कृष्टस्थितिकायुबन्धकानामप्यसम्भवात् , इत्थं च यथोक्तमेवाल्पबहुत्वमुपपद्यत इति ।।४४२-४४३-४४४॥
अथ गाथाद्वयेन शेषमार्गणासु प्रकृताल्पबहुत्वमाहपज्जमणुस-मणुसीसु आहारदुगा-ऽऽणताइदेवेसुं। मणणाण-संयमेसु समइअ-छेअ-परिहारसु ॥४४५॥ सुइल-खइएसु थोवा उक्कसाए ठिईअ आउस्स ।
अगुरूए संखगुणा असंखियगुणा उ सेसासु ॥४४६॥ (प्रे०) “पज्जमणुसे'त्यादि, पर्याप्तमनुष्य-मानुषीमार्गणास्थानयोः, आहारका-ऽऽहारकमिश्रकाययोगात्मके आहारकद्विके, अष्टादशस्वानतादिसर्वार्थसिद्धपर्यन्तेषु देवगतिभेदेषु, मनःपर्यवज्ञान-संयमौधमार्गणयोः, सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयमेषु, शुक्ललेश्या-क्षायिकसम्यक्त्वमार्गणयोरित्येतास्वेकोनत्रिंशन्मार्गणासु प्रत्येकं स्तोकाः । के इत्याह- "जेट्ठाअ" इत्यादि, आयुषो 'ज्येष्ठायाः'-उत्कृष्टायाः स्थितः, बन्धका इति प्राग्वदनुवर्तते । “तओ" ति 'ततः'-आयुष उत्कृष्टस्थितेवन्धकेभ्यः "अगुरूए संखगुणा" त्ति आयुपः अगुरोः'-अनुत्कृष्टायाः स्थितेः संख्येयगुणाः, बन्धका इति पूर्ववत् । सुगमम्, प्रत्येकमायुर्वन्धकजीवानामेव संख्येयत्वादिति ।
उक्तशेषावष्टनवतिमार्गणास्वाह-"असंखियगुणाउ सेसासु"ति शेषमार्गणासु तु प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्बन्धका असंख्येयगुणाः । केभ्यः ? इति चेत् , स्तोकेभ्य आयुष उत्कृष्टस्थितिबन्धकेभ्य इति प्राग्वदोदवसीयत इति । शेषमार्गणास्त्विमाः-अष्टौ नरकगतिभेदाः, चत्वारस्तियेक्पञ्चेन्द्रियभेदाः, मनुष्योघा-ऽपयोप्तमनुष्यभेदी, देवगत्योघभेदः, भवनपत्यादिसहस्रारकल्पान्ता एकादश देवगत्युत्तरभेदाः, नवविकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः, पथिवीकायसत्काः सर्वे, अप्कायसत्काः सर्वे, तेजस्कायसत्काः सर्वे, वायुकायसत्काः सर्वे भेदाः, त्रयः प्रत्येकवनस्पतिकाय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International