________________
मार्गणास्वायुष उत्कृष्ठेतरस्थितिबन्धकानां ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम् [३८७ एकोनविंशतिरपीन्द्रियमार्गणाभेदाः, द्विचत्वारिंशदपि कायमार्गणाभेदाः, पश्च मनोयोगभेदाः, पश्च वचोयोगभेदाः, वैक्रिय-वैक्रियमिश्रकाययोगभेदो, स्त्रीवेद-पुवेद-मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञानविभङ्गज्ञान-देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन--तेजः-पद्म-शुक्ललेश्या--सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकौ-पशमिकसम्यक्त्व-सम्यग्मिथ्यात्व-सासादन-संज्ञिमार्गणाभेदाश्चेति ।
ननु अनन्तरं पर्याप्तमनुष्यादिद्वादशमार्गणासु जीवानां संख्येयत्वादनुत्कृष्टस्थितेर्बन्धका यथा संख्येयगुणाः, तथा नरकगत्योधादिमार्गणासु जीवानामसंख्येयत्वादुत्कृष्टस्थितिबन्धकेभ्योऽनुत्कृष्टस्थितेर्बन्धका असंख्येयगुणा इति सुष्टूक्तम् , न पुनरनन्तराशिकास्वेकेन्द्रियादिमार्गणास्वप्यसंख्येयगुणा इति वाच्यम् । यतोत्र न केवलं तत्तन्मार्गणासु प्रागुक्तं परिमाणमेव यथोक्ताल्पबहुत्वे प्रयोजकं किन्तु बन्धप्रायोग्यस्थितिबन्धस्थानपरिमाणमपि, ततश्वोत्कृष्टा-ऽनुत्कृष्टयोढिविधस्थितिबन्धयोर्बन्धकपरिमाणस्य संख्येयत्वेन रूपेण, एवमसंख्येयत्वेनाऽनन्तत्वेन वा रूपेण तुल्यत्वे सति योकसभये नानाजीवापेक्षया बन्धप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयानि तदोत्कृष्टस्थितिबन्धकेभ्योऽनुत्कृष्टस्थितेर्बन्धकाः संख्येयगुणाः प्राप्यन्ते, यदि चैकसमये नानाजीवानाश्रित्य बन्धप्रायोग्यानि स्थितिबन्धस्थानान्यसंख्येयानि तदा तु तेऽनुत्कृष्टस्थितेर्बन्धकाऽसंख्येयगुणाः संपद्यन्ते । एकेन्द्रि यादिमार्गणास्वपि प्रत्येकं निरयगत्योपादिमार्गणावद् द्विविधस्थितेर्बन्धकानां तुल्यमनन्तपरिमाणमेवोक्तम् , एकसमये नानाजीवानां बन्धप्रायोग्यानि स्थितिबन्धस्थानानि त्वसंख्येयानि, ततश्चैकस्थितिबन्धस्थानात्मकोत्कृष्टस्थितेर्वन्धकेभ्योऽसंख्ययस्थितिबन्धस्थानात्मकानुत्कृष्टस्थितेर्बन्धका असंख्येयगुणा एव लभ्यन्त इति न कश्चिदोष इति ॥४४०-४४१॥
___ तदेवमुक्तं सप्तानां प्रकृतीनामुत्कृष्टा-नुत्कृष्टस्थित्योर्बन्धकानामल्पबहुत्वमादेशतोऽपि । इदानीमुक्तशेषस्याऽऽयुषः स्थितिबन्धकविषयं तदाह--
तिरिये वणप्फईए सव्वेगिंदिय-णिगोअभेएसु। काय-उरालदुगेसुणपुंसग-कसायचउगेसु॥४४२॥ दुअणाणा-ऽयत-अणयण-किण्हासुणील काउ-भवियेसु। अभविय-मिच्छत्तेसु य असण्णि-आहारगेसु च ॥४४३॥ आउस्सुक्कोसाए ठिईअ होअन्ति बंधगा थोवा । तत्तोऽणुक्कोसाए ठिईअ णेया अणंतगुणा ॥४४४॥
(प्र०) "तिरिये वणप्फईए” इत्यादि, तत्राधगाथाद्वयेन तिर्यग्गत्योघादिषट्त्रिंशन्मार्गणाः संगृहीताः, तृतीयगाथया च तासु मार्गणास्वायुष उत्कृष्टा-ऽनुत्कृष्टस्थित्योर्बन्धकानामल्पबहुत्वमभि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org