________________
३८६ ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामुत्कृष्ठेतरस्थितिबन्धकानां
(प्रे०) "तिरिये कायउरले”त्यादि, अक्षरार्थस्तु सुगमः, नवरम् “उरलदुगे" त्यनेनौदारिकौ-दारिकमिश्रकाययोगौ, “णपुमे"त्यनेन नपुसकवेदस्तथा "तिअसुहलेसासु" इत्यनेन कृष्ण-नील-कापोतलेश्याश्च ग्राह्या । इत्येवं सार्धगाथया संगृहीतासु तिर्यग्गत्योघाद्यनाहारिपर्यन्तासु त्रयोविंशतिमार्गणासु "हुन्ति" ति भवन्ति । बन्धका इत्यनुवर्तते, कस्याः स्थितेन्धकाः कियन्तश्चेत्याह-"सव्वप्पा" इत्यादि, आयुर्वर्जानां सप्तानां प्रकृतीनां प्रत्येकमुत्कृष्टायाः स्थितेः सर्वाल्पाः । “तो इयराए” ति 'तत:'-उत्कृष्टस्थितिबन्धकेभ्यः 'इतरायाः'-उत्कृष्टेतरायाः अनुत्कृष्टाया अनन्तगुणाः, बन्धका इति गम्यते । अत्रापि सर्वमोघबद्भावनीयम् , नवरमसंज्ञिमार्गणायामुत्कृष्टस्थितेबन्धकाः पर्याप्ता असंज्ञिपञ्चेन्द्रिया इति वक्तव्यमिति ॥४३८-४३९।।
अथ गाथाद्वयेन शेषमार्गणासु प्रकृताल्पबहुत्वमाहपज्जमणुस-मणुसीसु सव्वत्था-ऽऽहारदुग-अवेएसु। मणणाण-संयमेसु समइअ-छेअ-परिहारेसु॥४४०॥ सुहुम्मि य सत्तण्हं उक्कोसाए ठिईअ थोवा तो।
अपराए संखगुणा असंखियगुणा उ सेसासु ॥४४१॥ (प्रे०) “पज्जमणुसे”त्यादि, पर्याप्तमनुष्य-मानुषीमार्गणयोः, सर्वार्थसिद्ध विमानदेवगतिभेदाऽऽहारका-ऽऽहारकमिश्रकाययोगा-ऽपगतवेदमार्गणासु, मनःपर्यवज्ञान-संयमोघमार्गणयोः, सामायिकछेदोपस्थापन--परिहारविशुद्धिकसंयममार्गणासु सूक्ष्मसम्परायमार्गणायां चेत्येतासु समुदितासु पर्याप्तमनुष्यादिसूक्ष्मसम्परायान्तासु द्वादशमार्गणास प्रत्येकं “सत्तण्ह" मित्यादि, आयुर्वर्जानां सप्तप्रकृतीनामुत्कृष्टायाः स्थितेः स्तोकाः, बन्धका इति गम्यते, । "तो" ति 'ततः'-उत्कृष्टस्थितिबन्धकेभ्यः “अपराए संखगुणा" त्ति 'अपराया'-अनुत्कृष्टायाः स्थितेः संख्येयगुणा इति । सगमं चैतद् , एतासु प्रत्येकमुत्कृष्टतोऽपि संख्येयानां जीवानां लाभाद् , एकस्थितिबन्धस्थानात्मिकाया उत्कृष्टस्थितेः केपाश्चित् कदाचिद्वन्धप्रायोग्यत्वाच्चेति ।
उक्तशेषासु पश्चत्रिंशदुत्तरशतमार्गणास्वाह-"असंखियगुणा उ सेसासु" ति उक्तशेषमार्गणासु तु प्रत्येकं सप्तानां मूलप्रकृतीनामनुत्कृष्टस्थितेर्बन्धका उत्कृष्टस्थितिबन्धकेभ्योऽसंख्येयगुणाः, उत्कृष्टस्थितेबन्धकास्तु स्तोका इत्यर्थः । कुतः ? एवं ज्ञायत इति चेत् , “अपराए" इत्यस्य पूर्वतोऽनुवर्तनात् , सप्तानां मूलप्रकृतीनां प्रस्तुतत्वात् शेषस्यार्थाद्गम्यत्वाच्च 'असंखियगुणा उ सेसासु' इत्येतावन्मात्रोक्त्याऽपि व्याख्यातार्थोऽवबुध्यत इति । शेषाः पञ्चत्रिंशदभ्यधिकशतमार्गणास्त्विमाः-अष्टौ नरकगतिमार्गणाभेदाः, चत्वारोऽपि तिर्यक्पञ्चेन्द्रियभेदाः, मनुप्यौघा--ऽपर्याप्तमनुष्यभेदौ, सर्वार्थसिद्धविमानभेदवर्जाः शेषा एकोनत्रिंशदेवगतिमार्गणाभेदाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org