________________
॥ अथ पञ्चदशमल्पबहुत्वद्वारम् ॥ अथ प्राप्तम् "अप्पबहु" इत्यनेनोद्दिष्ट चरममल्पबहुत्वद्वारम् । अत्र हि मूलकर्मणामुत्कृटादिस्थितेर्बन्ध-बन्धकपरिमाणभेदान्मुख्यतया सोत्तरभेदं द्विविधमल्पबहुत्वं वक्तव्यं भवेत् ।
___ तत्र बन्धकपरिमाणाल्पबहुत्वं त्रिधा । तद्यथा- (१) उत्कृष्टा-ऽनुत्कृष्टस्थितिबन्धकपदद्वयापेक्षम् , (२) जघन्या-जघन्यस्थितिवन्धकपदद्वयाश्रयम् , (३) उत्कृष्ट-जघन्या-ऽजघन्यानुत्कृष्टस्थितिबन्धकरूपपदत्रयसमाश्रितं च । एतानि चैकैकमपि प्रत्येकं मूलकाण्याश्रित्य वक्तव्यानि ।
स्थितिबन्धप्रमाणाल्पबहुत्वन्तु स्वस्थान-परस्थानभेदतो द्विधा, तत्र स्वस्थान उत्कृष्ट-जघन्यपदद्वयमपेक्ष्यकविधमेवाल्पबहुत्वम् , परस्थाने तु त्रीणि । तद्यथा-आद्यं केवलमुत्कृष्टपदापेक्षम्, द्वितीयं केवलं जघन्यपदमधिकृत्य, तृतीयं तु जघन्योत्कृष्टपदद्वयं प्रतीत्येति ।
तत्र हि आदौ तावदन्धकपरिमाणाल्पबहुत्वं बिभणिपुरुत्कृष्टा-ऽनुत्कृष्टस्थित्यधिकृत्याहउक्कोसाअ ठिईए अट्ठण्हं बंधगा मुणेयवा।
सव्वत्थोवा तत्तोऽणुक्कोसाए अणंतगुणा ॥४३७॥ (प्रे०) “उक्कोसाअ ठिईए” इत्यादि, ज्ञानावरणादीनामष्टानां मूलप्रकृतीनां प्रत्येकमुत्छटायाः स्थितेबन्धका ज्ञातव्या इति संटङ्कः । कियन्त इत्याह-"सव्वत्थोवा" त्ति सर्वस्तोकाः, अनन्तरवक्ष्यमाणद्वितीयपदापेक्षया स्तोका इत्यर्थः । तर्हि द्वितीयपदे कियन्त इत्याह-"तत्तोणुक्कोसाए” इत्यादि, पूर्वोक्तपदानामनुवर्तनाद् द्वितीये चरमे वा पदे ज्ञानावरणादीनां प्रत्येकमनुत्कृष्टायाः स्थितेर्बन्धकाः “तत्तो” त्ति तेभ्य उत्कृष्टस्थितिबन्धकेभ्यः "अणंतगुणा” ति अनन्तगुणा इति । इयमत्र भावना-ज्ञानावरणस्योत्कृष्टस्थितेर्बन्धकाः पर्याप्तसंज्ञिपञ्चेन्द्रिया एव सम्भवन्ति, ते चासङ्खयेयाः । ज्ञानावरणस्यानुत्कृष्टस्थितेर्बन्धकास्तु सूक्ष्मनिगोदपर्यन्ताः सर्वे, ते चानन्ताः, तथा सत्युत्कृष्टस्थितेर्बन्धका अनुत्कृष्टस्थितेर्बन्धकापेक्षया स्तोका भवन्ति, उत्कृष्टस्थितेर्बन्धकापेक्षयाऽनस्कृष्ट स्थितेर्बन्धकास्त्वनन्तगुणा एव । इत्थमेव दर्शनावरणादिष्वपि प्रत्येकं द्रष्टव्यमिति ॥४३७॥
अथादेशतो व्याजिहीर्षरादौ तावदायुर्वर्जसप्तप्रकृतीरधिकृत्याहतिरिये काय-उरलदुग-कम्म-णपुम-चउकसाय-अयतेसु। दुअणाण-अणयणेसु तिअसुहलेसासु मिच्छे य ॥४३८॥ भवि-यियरा-ऽसण्णीसुआहारि-यरेसु हुन्ति सव्वऽप्पा। सत्तण्हुक्कोसाए तो इयराए अणंतगुणा ॥४३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org