________________
३८४ ]
हा मूलपइबंधो [ ओघादेशतश्चतुर्विधस्थितिबन्धे भाव० यदवाचि शतकचूर्णिटीप्पनकेऽकलितकृत्याऽकृत्य कर्मकर्दमकलापकलङ्कितकुतार्किकतर्किततर्कतिमिरतरणिभिमु निमनः कुमुदचन्द्रैः श्रीमन्मुनिचन्द्रैः सूरितल्लजै:
-
'अल्पं’- स्तोकं कषायाभावेन तत्प्रत्ययस्थित्यनुभागापोढतया अल्पस्थित्यनुभागत्वात् । तथाहि तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्यत' इति ।
ननु 'एवमपि दशमगुणस्थाने लोभसूक्ष्म किट्ट्युदयसद्भावेऽपि मोहनीयस्य स्थितिबन्धो नैव जायते, इत्थं च विद्यते तत्र कारणसचे कार्याभावलक्षणोऽन्वयव्यभिचारः । न च तत्र सूक्ष्मकषायस्यैवोदयः, स चाधिकृतौयिकभावान्तर्गततया न गृह्यते, बादरकषायोदयस्यैवाऽधिकृतत्वादित्यपि वक्तु ं शक्यते । एवं सति दशमगुणस्थाने ज्ञानावरणादीनां स्थितिबन्धस्याभिमतत्वेन व्यतिरेकव्यभिचारस्य दुर्वारत्वात् ?' इति चेद्, न सति प्रकृतित्रन्धे एवं स्थितिबन्धसद्भावा- सद्भावचिन्तनस्य प्रस्तुतत्वात् । न हि दशमगुणस्थाने मोहनीयप्रकृतिवन्धे प्रवर्तमानेऽपि तत्स्थितिबन्धाभावः प्रवर्तते, येन सूक्ष्मलोभकिट्ट्युदयसद्भावेऽपि मोहनीयस्थितिबन्धाभावलक्षणोऽन्वव्ययभिचारस्स्यात् । यासां तु ज्ञानावरणादिप्रकृतीनां तत्र बन्धः प्रवर्तते, तासां तु स्थितिबन्धोऽपि जायत एव । इत्थं बादरकषायोदयमेव प्रस्तुतौदधिक भावतयाऽभ्युपगम्य व्यतिरेकव्यभिचारप्रसङ्गापादनं निरवकाशमेव । अत एवाऽधस्तनगुणस्थानेषु कापायिकौदयिकभावस्य संततं प्रवर्तमानेऽपि तत्राऽऽयुषः स्थितिबन्धस्याऽसार्वदिकत्वेऽपि न काचित्क्षतिः, आयुर्वन्धस्यैव कादाचित्कत्वात् प्रकृतिबन्धसद्भावे तु तदीयस्थितिबन्धस्य नियमतः प्रवर्तनाच्चेत्यलं पल्लवितेनेति ||४३६||
तदेवमोघत आदेशताऽष्टानामपि मूलप्रकृतीनामुत्कृष्टादिचतुर्विवस्थितिबन्धे कृता भावप्ररूपणा, तस्यां च कृतायां गतं चतुर्दशं भावद्वारम् ।
अष्टानां मूलप्रकृतीनामुत्कृष्टादिचतुर्विधस्थितिबन्धे भावप्रदर्शकयन्त्रम्
कुत्र
ओघतः सर्वमार्गणास्थानेषु च.
Jain Education International
केषाम्
अटुकर्मसत्कोत्कृष्टादिचतुर्विधस्थितीनां प्रत्येकम्
।। इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे चतुर्दशं भावद्वारं समाप्तम् ॥
केन भावेन बन्धः
औदयिकेन भावेन
For Private & Personal Use Only
www.jainelibrary.org