________________
॥ अथ चतुर्दशं भावद्वारम् ॥
एतर्हि चतुर्दशस्य भावद्वारस्यावसरः, तत्र प्रस्तुतोऽष्टमूलप्रकृतीनामुत्कृष्टादिस्थितिबन्ध ओघत आदेशपशमिक क्षायिक क्षायोपशमिकौ-दयिक परिणामिकभावानां मध्ये केन भावेन जायत इत्येतद्दर्शयन्नेकामार्यामाह -
अहं कम्माणं चव्विाण वि ठिईण भावेणं । ओदइएणं बंधी एमेव हवेज सव्वासु ॥४३६ ॥
(प्रे० ) " अट्ठण्ह" मित्यादि, ज्ञानावरणादीनामष्टानां मूलकर्मणां "चउव्विहाण वि ठिईण" त्ति उत्कृष्टा ऽनुत्कृष्ट- जघन्या-ऽजघन्यभेदाच्चतुर्विधानामपि 'स्थितीनां' स्थितिविशेषाणाम्, अस्य च 'बंधो' इति परेणान्वयः, ततस्तासां बन्धः, भवतीति शेषः । केन भावेनेत्याह"भावेणं ओदइएणं" ति औदयिकेन भावेन । कुतः ? इति चेत्, स्थितिबन्धस्य कषायप्रत्ययत्वात् । उक्तं च-'ठिइअणुभागं कसायओ कुणइ” इति । कषायस्त्वौदयिकभाव एव यतः कर्मणां विपाकोद्भवलक्षण उदयस्तेन निर्वृत्तः, तत्प्रयोजनो वा यो भावः स औदयिकभाव उच्यते । उक्तं च तत्वार्थवृत्तौ - 'कर्मविपाकाविर्भाव उदयः, तत्प्रयोजनस्तनिवृत्तो वा औदयिको भावः' इति ।
1
इदमुक्तं भवति - जीवस्य नैरयिकत्वादिपरिणामाः निरयगत्यादिकर्मणां विपाकोदयजन्यत्वाद् यथा औदयिकभावास्तथाऽनन्तानुबन्ध्यादि कषायोदयजन्यत्वात्स्थितिबन्धहेतुभूताः काषायिकात्मपरिणामा अप्यौदयिकभावा एव । उक्तञ्च तत्रैव - 'नरकगतिनामकर्मोदयान्नरकगतिरौदयिकोऽभिधीयते भात्रः, कषायमोहनीयोदयाच्च क्रोधी मानीत्याद्यौयिकः' इत्यादि । इत्यतः सुष्ठुक्तम् 'भावेण ओदइण बंध' इति ।
अथ मार्गणास्थानेष्वपि चतुर्विधायाः स्थितेर्वन्ध औदायिकभावेनैव, अतस्तास्वपि तथैव त्रिभणिषुरतिदेशेनाह - "एमेव हवेज्ज सव्वासु" त्ति एवमेव यथा ओघतो ज्ञानावरणादेरन्यतमस्या अपि प्रकृतेरुत्कृष्टाद्यन्यतम स्थितिबन्ध औदयिकभावेनोक्तस्तथा निरयगत्योघादिष्वनाहारकपर्यन्तासु सर्वासु मार्गणास्वप्यसावौदयिकभावेनाऽवसातव्य इत्यर्थः ।
एतेन हि स्थितिबन्धे काषायिक औदयिकभाव एवाऽसाधारणो हेतुरन्वयव्यतिरेकव्यभिचाराभावात्, न पुनरन्ये गत्याद्योदयिकभावा औपशमिकादय भावा वा, उपशान्तमोहादिगुणस्थाने तेषां सद्भावेऽपि स्थितिबन्धस्याभावेनाऽन्वयव्यभिचारादित्यपि विज्ञेयम् । अत्र तु द्वितीयादिषु तृतीयादिषु वा समयेष्ववस्थानं स्थितिरित्येव निरुक्तिराश्रयणीया, न पुनः स्थानं स्थितिरिति, उपशान्तमोहादिगुणस्थाने बध्यमानदलिकानां समय-द्विसमयाऽवस्थानस्याऽभिमतत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org