________________
३७८ ] बंधवहाणे मूलपडिठिइबंधो [ मार्गणास्वायुर्वज नामजघन्यस्थिति० स्तिर्यक्पञ्चेन्द्रियभेदाः, अपर्याप्तमनुष्यः, त्रिंशद्देवगतिमार्गणाभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियः, ओघ - बादरौघ - बादरपर्याप्तभेदभिन्नाः पृथिव्यादीनां प्रत्येकं त्रयस्त्रय इति द्वादश भेदाः, प्रत्येकवनस्पतिकायौध- तत्पर्याप्तभेद, अपर्याप्तत्रसकायः, वैक्रिय-तन्मिश्र काययोगी, आहारक-तन्मिश्र काययोग, विभङ्गज्ञानम्, परिहारविशुद्धिकसंयम- देशसंयमौ, तेजः - पद्मलेश्ये, क्षायोपशमिकसम्यक्त्वम्, सम्यग्मिथ्यात्वं सासादनं चेत्येवंरूपासूक्तशेषास्त्रशीतिमार्गणासु सप्तप्रकृतीनां जघन्य स्थितेर्वन्धकानामुत्कृष्टान्तरं क्षेत्रतोऽङ्गुला संख्यभागप्रमाणं भवति, कालतस्त्वसंख्येयोत्सपिण्यवसर्पिण्य इति प्राग्वज्ज्ञेयमिति ॥ ४२९-४३०-४३१-४३२॥
अथ मार्गणास्थानेष्वेव सप्तानामजघन्यस्थितेर्नानावन्धकाश्रयमन्तरमाहअजहण्णाअ ठिईएऽणुक्कोसठिइव्व सव्वासु ॥४३३॥
(प्रे०) "अजहण्णाअ" इत्यादि, सर्वासु निरयगत्योघाद्यनाहारक मार्गणापर्यन्तासु सप्तत्युतरशतमार्गणासु प्रस्तुतत्वान्मूलप्रकृतीनामजघन्यायाः स्थितेर्यन्धकानां जघन्योत्कृष्टभेदभिन्नं द्विविधमप्यन्तरम् "णुक्कोसठिइव्व" त्ति सप्तानामनुत्कृष्टस्थितेर्वन्धकान्तरवत् 'सत्तण्ह अपज्जणारे आहार - दुगे विउत्र्वमिसे य' । इत्यादि (४१९...४२३) गाथापञ्चकेनोक्तमानं बोध्यम् । तद्यथा - अपर्याप्तमनुष्या-ssहारककाययोग- वैक्रियमिश्रकाययोगाऽपगतवेद-सूक्ष्मसम्परायसंयमौ - पशमिकसम्यक्त्वमिश्र - सास्वादन लक्षणेषु नवमार्गणास्थानेषु जघन्यतः समयः, छेदोपस्थापन संयमे तु तजघन्यतस्त्रिषष्टिवर्षसहस्राणि परिहारविशुद्धिकसंयमे पुनश्रतुरशीतिवर्षसहस्राणि, एता एकादशमार्गणा विहाय सेसासु निरयगत्योघादिमार्गणासु त्वजघन्यस्थितिबन्धकानामन्तरमेव न भवति । प्रस्तुतान्तरमुत्कृष्टतः पुनरपर्याप्तमनुष्य- मिश्रदृष्टि-सास्वादन मार्गणात्रये पल्योपमस्याऽसंख्येयभागमात्रम्, वैक्रियमिश्रकाययोगे द्वादश मुहूर्ता:, आहारक- तन्मिश्र काययोगमार्गणाइये वर्षपृथक्त्वम्, अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः षण्मासाः औपशमिकसम्यक्त्वे तु सप्त दिनानि, छेदोपस्थापन संयम-परिहारविशुद्धिकसंयम मार्गणयोः पुनरिदमुत्कृष्टमन्तरमष्टादश सागरोपमकोटिकोटयो भवति । एतच्च जघन्योत्कृष्टभेदभिन्नं द्विविधमपि सप्तकर्मणामजघन्यस्थितिबन्धकानामन्तरं सर्वथैव सप्तानामनुत्कृष्टस्थितेर्वन्धकानामन्तरवद्विभावनीयमिति ॥ ४३३ |
उक्तमायुर्वर्ज सप्तानां जघन्या- ऽजघन्यस्थित्योर्नानाजीवाश्रयं जघन्योत्कृष्टभेदभिन्नमन्तरं मार्गणास्थानेष्वपि । अथ शेषस्यायुः कर्मणस्तद्विभणिपुर विदेशेने वाह
जासु अणुक्कोसाए ठिअ आउस्स अंतरं णत्थि । तासु जहणठिअ वि अंतरमाउस्स णेव भवे ॥४३४॥ सेसासु लहुटिईए उक्कोसठिइव्व अंतरं यं । अजहण्णाअ ठिईएणुक्कोसठिइव्व सव्वासु ॥ ४३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org