________________
मार्गणास्वायुषो जघन्येतरस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम्
[ ३७९ ___(प्रे०) “जासु' इत्यादि, यासु मार्गणा आयुषोऽनुत्कृष्टायाः स्थितेर्बन्धकानामन्तरं "णत्थि" त्ति 'आउस्स ' अंतरं णोऽणुक्कोसार ठिईअ' इत्यादिना प्राक प्रतिषिद्धं तासु तिर्यग्गत्योध-सर्वैकेन्द्रिय-सर्वसाधारणवनस्पतिकायौ-ध-सूक्ष्मौघ--तत्पर्याप्ता--ऽपर्याप्त-बादरोघा--ऽपर्याप्तबादरभेदभिन्न-पथिव्यप्तेजोपायुकाय-वनस्पतिकायौघ-प्रत्येकवनस्पतिकायौघ-तदपर्याप्त-काययोगोधौ-दारिकोदारिकमिश्रकाययोग--नपुंसकवेद-कषायचतुष्क--मत्यज्ञान-श्रताज्ञाना--ऽसंयमा-ऽचक्षुर्दर्शना--ऽशुभलेश्यात्रिक-भव्या-ऽभव्य-मिथ्यात्वा-ऽसंश्य-ऽनाहारकलक्षणासु द्विषष्टिमार्गणासु “जहण्णठिईअ वि” ति आयुषो जघन्यायाः स्थितेर्बन्धकानामप्यन्तरं नैव भवेत् । न केवलमजघन्यस्थितेबेन्धकानामन्तरं न भवति, किन्तु जघन्यस्थितेर्बन्धकानामन्तरमपि नैव भवतीत्यपिशब्दार्थः । कुतोऽजघन्यस्थितेर्बन्धकानामिव न भवति ? असंख्येयलोकादिना रूपेण बन्धकपरिमाणस्य साम्यादिति ।
"सेसासु" त्ति अनन्तरोक्ताः द्विषष्टिमार्गणाः परिहत्य निरयगत्योपाद्यकोत्तरशतमार्गणासु सप्तानां लघुस्थितेर्बन्धकानाम् “उक्कोसठिइव्व अंतरं णेय"मिति जघन्योत्कृष्टभेदभिन्नं द्विविधमन्तरमुत्कृष्टस्थितेर्बन्धकानाम् ‘आउस्सुक्कोसाए ठिईअ सव्यासु अंतरं णेयं । हस्सं समयो जेट अंगुलभागो असंखयमो।'४२४।। इत्यनेन प्रतिपादितान्तरवजघन्यतः समयः, उत्कृष्टतस्त्वगुलासंख्यभागप्रमाणं ज्ञेयम् । निरयगत्योघाद्याः शेषमार्गणाः पुनरिमा:-सर्वे निरयगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, सर्वे द्वि-त्रि-चतुः-पञ्चेन्द्रियजातिभेदाः, पर्याप्तवादराः पृथिव्यप्तेजोवायुकायाः, पर्याप्तप्रत्येकवनस्पतिकायः, सर्वे त्रसकायिकाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रिया-ऽऽहारका-ऽऽहारकमिश्रकाययोग-स्त्रीवेद-पुवेद-मति-श्रता-ऽवधिमनःपर्यवज्ञान-विभङ्गज्ञान-संयमौघ-सामायिक- छेदोपस्थापन-परिहारविशद्धिकसंयम-देशसंयम-चक्षदर्शना-ऽवधिदर्शन-तेजः-पद्म-शकलेश्या-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिक-सास्वादन-संज्ञिमार्गणाश्चेति । आयुषोऽजघन्यस्थितेन्धकानामाह-"अजहण्णाअ" इत्यादि, अजघन्यस्थितेर्बन्धकानां जघन्योत्कृष्टभेदभिन्नं द्विविधमन्तरं पुनः “अणुक्कोसटिइव्व सव्वासु" ति सर्वासु द्विषष्टयु - त्तरशतमागणास्वप्यायुषोऽनुत्कृष्टस्थितेर्बन्धकानां प्रागस्मिन्नेवाऽन्तरद्वारे'जहि सव्वद्धा कालोऽणुकोसठिईअ आउगस्स भवे । तहि तीअ अंतरं णो सेसासु भवे लह समयो॥४२५।। पंचिंदियतिरिय-विगल-पणिदिय-तसेसु सिं अपज्जेसु । भिन्नमुहुत्तं जेढ अण्णह गाउण णेयव्वं' ॥४२६।। इत्यनेनोक्तानुत्कृष्टस्थितिबन्धकान्तरवज्ज्ञातव्यमिति ॥४३४-४३५।।
प्रदर्शितमायुषोऽपि जघन्या-ऽजघन्यद्विविधस्थितिबन्धयो नाजीवाश्रयं जघन्योत्कृष्टभेदभिन्नद्विविधमन्तरम् । तस्मिँश्च प्रदर्शिते निष्ठितं नानाजीवाश्रयमन्तरद्वारमिति ।। ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे त्रयोदशं नानाजीवाश्रयमन्तरद्वारं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |