________________
मार्गणास्वायुर्वर्जाना जघन्यस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम् ।
[ ३७७ निबोधिक-श्रुता-ऽवधि-मनःपर्यवज्ञानचतुष्कपश्चात्कृतानां जीवविशेषाणां तु संख्येयानि वर्षसहस्राण्युस्कृष्टान्तरं भवति । उक्तं च सिडप्राभृतवृत्ती
_ 'पुरिससिद्धाणं पुरिसाणंतरसिद्धाणं य दोण्हं वि भंगाणं अंतरं वासं अहियं । सेसपुरिसे इत्थि-णपुंसगभंगेसु संखेज्जाणि वाससहस्साणि अंतरं' त्ति गाथार्थः ॥६८॥' इति । तथा 'सेसाणं विगप्पाणं वासं अहियं, तं जहा-"आभिणिबोहियसुयओहिनाणपच्छाकडाणं एयं 'मणपज्जणाणरहे' त्ति मणपज्जवणाणरहियाणं । सहियाणं पुण सेसभंगाणं आभिणिबोहियसुयमणपज्जवणाणपच्छाकडाणं वा 'संखसम' त्ति संखेजाणि वाससहस्साणि त्ति गाथार्थः ।।७३॥' इति ।
तथैव तत्तद्वेद-तत्तज्ज्ञानेनाऽविशिष्य सामान्यतः क्षपकजीवानामुत्कृष्टान्तरस्य षण्मासप्रमाणत्वेऽपि तत्तद्वेदादिना विशिष्टानां तदूत्कृष्टान्तरमधिकं प्राप्यते, तच्च स्त्रीवेदविशिष्टानां वर्षपृथक्त्वम् , तत एव मानुषीणामपि वर्षपृथक्त्वम् , नपुंसकवेदिजीवानां मनःपर्यवज्ञानिनां च वर्षपृथक्त्वं विज्ञेयम्, पुवेदेन क्षपकश्रेणिं समारूढानां तु तत्साधिकवर्षप्रमाणमेवोत्कृष्टतोऽपि भवति । इत्थमेवावधिज्ञानिनामवधिदर्शनिनामपि क्षपकाणां प्रत्येकमुत्कष्टान्तरं साधिकवर्षप्रमाणं भवति, अत एवानुपदं पुवेदादिमार्गणासु सप्तानां जघन्यस्थिते नाजीवाश्रयमुत्कष्टमन्तरं साधिकवर्षप्रमाणं वक्ष्यते ।
ननु 'पुरिसे वासं अहियं' इति सिद्धप्राभृतवचनात् तदनुसारेण भवतु पुवेदिक्षपकान्तराधीनं प्रस्तुतान्तरमुत्कृष्टतः साधिकवर्षप्रमाणम्, एवं ‘सेसाणं वासहिये' इति तद्वचनात् तदनुसारेणावधिज्ञानादिमार्गणासु साधिकवर्षमानं च, न पुनर्मानुषी-स्त्रीवेद-नपुसकवेद-मनःपर्यवज्ञानमार्गणासु तद्वर्षपृथक्त्वं भण्यमानमुपपत्तिपथमामृशति, स्त्रीवेदादिसिद्धानामुत्कृष्टान्तरस्य संख्येयवर्षसहस्रप्रमाणकथनाद् ? इति चेद, न, बहुवाचित्वेऽपि पथक्त्वशब्दस्य दृश्यमाणत्वात् । उक्तं चोपशमनाकरणचूर्णी-“पुहुत्तसहो बहुवाची" इति । इत्थं च वर्षपृथक्त्वमित्यनेन सम्भवदहुवर्षप्रमाणान्तरस्याऽपि ग्रहीतुं शक्यत्वादित्यलं विस्तरेण । पुवेदादिमार्गणास्वेवाह-“साहियवासो” इत्यादि, पुरुषवेदे "तिकसायोहिजुगलेसु" ति लोभकषाये भणितत्वात्तद्वर्जेषु त्रिषु क्रोधादिकषायेषु, अवधिज्ञानेऽवधिदर्शने चेत्येवं समुदितासु षण्मार्गणासु सप्तानां जघन्यस्थितेर्बन्धकानामुत्कृष्टमन्तरं साधिकवर्षमानं भवति । कषायत्रिके मतान्तरेणाह-"अहवा" इत्यादि, लोभवर्जक्रोधादिकषायत्रिके 'ऽथवा'-मतान्तरेण प्रस्तुतान्तरं षण्मासा भवति । अवधिज्ञाना-ऽवधिदर्शनमार्गणाद्वयेऽनन्तरं साधिकवर्षमानं दर्शितम्. साम्प्रतं महाबन्धकारमतेन तत्पूर्वापेक्षयाविलक्षणमेवेति कथयति-"ओहिजुगलम्मि"इत्यादि, अवधिज्ञाना-ऽवधिदर्शनमार्गणाद्वयलक्षणेऽवधियुगले प्रस्तुतान्तरं "बिंति परे" ति परे-महाबन्धकारा बुवन्ति-प्रतिपादयन्ति । कियदित्याह-"वासपुहुत्तं" त्ति वर्षपृथक्त्वमिति ।
"छेए अट्ठारस जलहिकोडिओडीओ" ति छेदोपस्थापनसंयममार्गणायां सप्तानां जवन्यस्थितेर्बन्धकानामुत्कृष्टान्तरमष्टादश 'जलधिकोटिकोटयः' - सागरोपमकोटिकोटयो भवति । अथोक्तशेषमार्गणासु प्रस्तुतान्तरमाह-"सेसासु" इत्यादि, अष्टौ निरयभेदाः, चत्वार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org