________________
३७६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जाना जघन्यस्थिति० मइ-सुअ-संयम-समइअ-सुहुमेसु अचक्खु-चक्खु-सुक्कासु। सम्म-खइअ-सण्णीसु भविया-ऽऽहारेसु छम्मासा ॥४३०॥ वासपुहुत्तं मणुसी-णपुंसगि-त्थि-मणणाणु-वसमेसु। साहियवासो हवए पुम-तिकसायो-हिजुगलेसु॥४३१॥ अहवा तिकसायेसु छम्मासो-हिजुगलम्मि बिंति परे । वासपुहुत्तं छेए अट्ठारस जलहिकोडिकोडिओ॥४३२॥ (गोतिः)
सेसासु मग्गणासुअंगुलभागो भवे असंखयमो। (प्रे०) “सेसासु” इत्यादि, उक्ततिर्यग्गत्योघादिपञ्चचत्वारिंशन्मार्गणा उत्सृज्य शेषासु निरयगत्योधादिपञ्चविंशत्यभ्यधिकशतमार्गणासु पुनः सप्तानां जघन्यायाः स्थितेर्बन्धकानामन्तरं प्राप्यते, तच्च "लहु समयो' त्ति जघन्यं समयमात्रं भवति । उत्कृष्टं तर्हि कियद्भवतीत्याह"गुरुमत्थि” इत्यादि, अपर्याप्तमनुष्यमानुषीभेदवर्जितयोरोघ-पर्याप्तभेदभिन्नयोर्द्वयोर्नरगतिभेदयोस्तथैवौघ--पर्याप्तभेदभिन्नयोयोः पञ्चेन्द्रियजातिभेदयोईयोश्च त्रसकायभेदयोः, पञ्चमनोयोगभेदेषु, पञ्चवचोयोगभेदेषु, काययोगौधे, औदारिककाययोगे, अपगतवेदे, लोभकषाये, मतिज्ञानश्रुतज्ञान-संयमौघ-सामायिकसंयम-सूक्ष्मसम्परायसंयम-चक्षुर्दर्शना-ऽचक्षुर्दर्शन-शुक्ललेश्या-सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संज्ञि-भव्या-ऽऽहारकेष्वित्येवं समुदितासु त्रयस्त्रिंशन्मार्गणासु "छम्मासा" त्ति षण्मासा भवति । कुतः ? एतासु प्रत्येकं सप्तानां जघन्यस्थितिवन्धस्य क्षपकस्वामिकतया क्षपकाणां सर्वथाऽभावलक्षणोत्कृष्टान्तरापेक्षया तल्लाभात् , क्षपकाणामुत्कृष्टान्तरस्य षण्मासत्वाच्चेति । अन्यत्राह-“वासपुहुत्त"मित्यादि, मानुषी-नपुंसकवेद-स्त्रीवेद-मनःपर्यवज्ञानौ-पशमिकसम्यक्त्वलक्षणासु पश्चमार्गणासु प्रस्तुतान्तरं वर्षपथक्त्वं भवति ।
ननु भवत्वौपशमिकसम्यक्त्वमार्गणायां जघन्यस्थितेर्बन्धकानामुत्कृष्टान्तरं वर्षपृथक्त्वम् , उपशमकानां नानाजीवाश्रितोत्कृष्टान्तरस्य जीवसमासे “वासपुहुत्तमुवसामएसु" इत्यनेन वर्षपृथक्त्वाभिधानात् । न पुनः शेषमानुष्यादिमार्गणास्वपि तद्युज्यते, तासु क्षपकाणामेव जघन्यस्थितिबन्धस्वामित्वेन मनुष्यगन्योधादिमार्गणावत्पण्मासप्रमाणस्यैव तस्य युज्यमानत्वात् ? इति चेद्, उच्यते, -तत्तद्वेदतत्तज्ज्ञानादिनाऽविशिष्टानां सामान्यजीवानां सिद्धयगमनलक्षणमन्तरमुत्कृष्टतः षण्मासादधिकमभवदपि तत्तद्वेदतत्तज्ज्ञानादिना विशिष्टानां स्व्यादितत्तल्लिङ्गिनामवध्यादितत्तज्ज्ञानिनां विशेषतो यथा-स्त्रीवेदनपुंसकवेदसिद्धानामुत्कृष्टतः संख्येयानि वर्षसहस्राणि, पुवेदसिद्धानां साधिकवर्षमानम्, यथा चाऽऽभिनिवोधिक-श्रुता-ऽवधिज्ञानपश्चात्कृतानां साधिकवर्षमानम् , आभि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org