SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ मार्गणास्वायुर्वर्जानां जघन्यस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम् [ ३७५ . (प्रे०) “सत्तण्ह” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां 'हस्वायाः' जघन्यायाः स्थितेबन्धकानां “लहु समयो" ति 'लघु-जघन्यमन्तरं 'समय' समयमानं भवति । सुगमम् । उत्कृष्ट माह-"गुरु" मित्यादि, सप्तानां जघन्यस्थितेर्बन्धकानां 'गुरु'-उत्कृष्ट मन्तरं पुनः षण्मासा भवति, क्षपकाणामेव जघन्यस्थितिबन्धस्वामित्वात् तेषां च सर्वथाऽभावलक्षणस्यान्तरस्योत्कर्षतः षण्मासप्रमाणत्वात् । उक्तश्च जोवसमासप्रकरणे-खबगेसु छम्मासा' इति । अजधन्यस्थितिबन्धकानामाह-"अलहुए णंतर"मिति, सप्तानामलघुस्थितेर्बन्धकानां "णंतर" ति अन्तरं न भवति । सुगमम् , एकेन्द्रियादिसर्वजीवराशिभिः सप्तानामजघन्यस्थितिबन्धस्य नैरन्तर्येण करणात, तेषां बहूनां राशीनामविच्छेदेन प्राप्यमाणतया बन्धककालस्यैव सर्वाद्धात्वादिति । अथाऽयुष आह"आउस्स दोण्हं वि" ति ‘णंतर' मित्यत्राऽपि सम्बध्यते, तत आयुःकर्मणो 'द्वयोरपि'-जघन्या याः स्थितेबन्धकानामजघन्यायाः स्थितेबेन्धकानां चान्तरं न भवति, न पुनः केवलानामजघन्यस्थितेर्बन्धकानामित्यपिशब्दार्थः । सुगम चेदमपि, प्रतिसमयं द्विविधस्थित्योरनन्तानां बन्धकानां लाभेन बन्धकाद्धाया एवानाद्यनन्तत्वात्, येषां च निरवधिको बन्धकाद्धा तेषां त्वन्तरं न लभ्यत इत्यनेकशः प्रतिपादितमिति ॥४२७॥ __अथादेशतो व्याजिहीपुरादौ यासु सप्तानां जघन्यस्थितेर्बन्धकानामन्तरमुक्तनीत्या न सम्भवति, तासु प्रतिषेधयन्नाह जासु जहण्णठिईए कालो सत्ताह होइ सम्बद्धा। तासु जहण्णठिईए सत्तण्हं अंतरं णत्थि ॥४२८॥ (प्रे०) "जासु” इत्यादि, यासु तिर्यग्गत्योपादिपञ्चचत्वारिंशन्मार्गणासु सप्तानां जघन्यस्थितेर्वन्धकानां कालः सर्वाद्धा "होइ” त्ति उक्तो भवति, तासु मार्गणासु सप्तानां जघन्यस्थितेबन्धकानामन्तरं न भवतीत्यक्षरार्थः । भावार्थस्तु प्राग्वत् । यासु सप्तानां जघन्यस्थितेर्वन्धककालः सर्वाद्धा,ता मार्गणाः पुनरिमाः-तिर्यग्गत्योघ-सवैकेन्द्रियभेदाः, सूक्ष्मौघ-तत्पर्याप्ता-ऽपर्याप्त-बादरापर्याप्तभेदभिन्नाश्चत्वारः पृथिवीकायभेदास्तथैवाप्काय-तेजस्काय-वायुकायसत्काः प्रत्येकं चत्वारश्वत्वारो भेदाः, वनस्पतिकायौघा-ऽपर्याप्तप्रत्येकवनस्पतिकायभेदो, सर्वे साधारणवनस्पतिकायभेदाः, औदारिकमिश्र-कार्मणकाययोगी, मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽशुभलेश्यात्रिका-ऽभव्य-मिथ्यात्वा-ऽसंज्यऽनाहारकमार्गणाश्चेति ॥४२८॥ उक्तशेषमार्गणासु प्रस्तुतान्तरस्य सम्भवात्तज्जघन्येतरभेदेन दर्शयन्नाह सेसासु लहु समयो गुरुमत्थि दुणर-पणिदिय-तसेसु । पणमणवय-कायेसु उरालिय-अवेअ-लोहेसु ॥४२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy