________________
३७४ ]
विहाणो मूलपडिटिबंधो [ ओघतोऽष्टानां जघन्येतर स्थिति० पुनरपि तच्च्यवनप्रवृत्ते रावश्यकत्वादुत्कृष्टपदे तयोः कालस्य तारतम्ये उत्कृष्टपदेऽन्तरपरिमाणतारतम्यमपि कथं न स्यात् ।
यदि चैकजीवाश्रयच्यवनकालस्य समयमात्रत्वेनैकजीवश्रयाऽऽयुर्वन्धकालस्यान्तमुहूर्तप्रमाणत्वेन च तयोर्मध्येऽसंख्येयगुणहीनाधिकत्वेऽपि उत्कृष्टपदगतैकजीवाश्रयाऽऽयुर्वन्धान्तर -च्यवनान्तरयोर्मध्येऽसंख्येभागमात्रेण हीनाधिक्यान्नानाजीवाश्रययोस्तयोर्मध्ये स्यात्तल्पप्रायत्वं तुल्यत्वं वा तर्हि तु न कञ्चिदोषमुत्पश्यामः, नवरं तयोस्तुल्यत्वमेव तुल्यप्रायत्वमेव वेति तु प्रबलसाधनाभावे निश्चेतु' न युक्तम्, इत्यतोऽपि 'णाउण णेयव्त्र' मित्येत्र मे वेदानीं सम्यग् । निश्वयतस्तु तस्य सूक्ष्मार्थवेदिवेद्यत्वादित्येवं विचारितं यथामति प्रसङ्गवशान्निरयगत्यो घादिमार्गणास्थानेष्वाऽऽयुषोऽनुत्कृष्टस्थितेर्नानाजीवाश्रयोत्कृष्टान्तरम् । एतर्हि तदेव विभणिषुराह मूलकृत् - 'अण्णह णाउण णेयव्व' मिति, गतार्थम् । केवलमन्यत्रेति 'जहि सव्वद्धा' इत्यादिना प्रतिषिद्धप्रकृतान्तरास्तिर्यग्गत्योघादिद्विषष्टिमार्गणास्तथा 'पंचिदियतिरिय-विगले' त्यादिनाऽभिहितप्रकृतान्तरा द्वादशमार्गणा इत्येवं चतुःसप्ततिमार्गणाभ्यो ऽन्यत्र' - निरयगत्योघादिनवनवतिशेषमार्गणास्त्रित्यर्थः । ताच शेषमार्गणा इमाः सर्वे निरयगतिभेदाः, पर्याप्तपञ्चेन्द्रियतिर्यक्, तिरश्री, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, पर्याप्तद्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियाः, पर्याप्तवादरपृथिव्यप्तेजोवायु-पर्याप्त प्रत्येकवनस्पतिपर्याप्तत्र सकायभेदाः, सर्वे मनोवचोयोगभेदाः, वैक्रियाऽऽहारका ऽऽहारकमिश्रकाययोगाः, स्त्रीवेदपुवेदी, मत्यादिज्ञानचतुष्कम्, विभङ्गज्ञानम्, संयमौघ-सामायिक-छेदोपस्थापन- परिहारविशुद्धिकसंयम- देशसंयमाः, चक्षु-रवधिदर्शने, शुभलेश्यात्रिकम्, सम्यक्त्वौघ क्षायिक क्षायोपशमिकसम्यक्त्वानि, सासादनं संज्ञिमार्गणास्थानञ्चेति ।
अत्रेदमवधेयम् - यत्र मार्गणादावायुष उत्कृष्टादिस्थितेर्बन्धकपरिमाणमुत्कृष्टपदेऽसंख्यलोकान्न्यूनं तत्र मार्गणादौ तद्वन्धकानां यथोक्तविवक्षया स्तोकत्वेन कादाचित्कान्तरमभ्युपगम्य पूर्वं भङ्गविचयद्वारे पर्याप्तत्रादर पृथिवीकायादि मार्गणास्थानेष्वायुषोऽनुत्कृष्टस्थितावष्टौ भङ्गा अभिहिता । यदि तत्र पञ्चसङ्ग्रहानुसारेण निरन्तरोत्पत्तिवच्च्यवनान्तरमपि नाभ्युपगम्यते, तदा तत्राऽष्टमो भङ्गस्तथा नानाजीवाश्रयकालद्वारे सर्वाद्धा, प्रस्तुतद्वारेऽन्तरप्रतिषेधश्च द्रष्टव्यो भवति । एवमन्य
पि यथासंभवं ज्ञेयमिति ॥४२५-४२६॥
तदेवमभिहितमष्टानामपि प्रकृतीनामुत्कृष्टानुत्कृष्टद्विविधस्थित्योर्बन्धकानां लोके सर्वथाऽभावलक्षणमन्तरमोघत आदेशतश्च यथासम्भवम् । साम्प्रतं तासामेवाष्टानां जघन्या-ऽजघन्य स्थित्योस्तद्विभणिषुरादौ तावदोघत आह
Jain Education International
सतह लहू समयो हस्साअ ठिईअ बंधगाण गुरु । छम्मासा अलहूए णंतरमाउस्स दोन्हं वि ॥ ४२७॥
For Private & Personal Use Only
www.jainelibrary.org