________________
मार्गणास्वायुषोऽनुत्कृष्ठस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम् .
[३७३ मुहूर्तानान् द्वादशमुहूर्ताभ्यधिकषण्मासान् यावत्कैश्चिन्नारकैरायुबन्धो न क्रियेत, तदा द्वादशमुहूर्ताश्व्यवनान्तरमन्तमुहूर्तोना द्वादशमुहूर्ताभ्यधिकषण्मासा उत्कृष्टमायुर्वन्धकान्तरं च सुखेनोत्पद्यताम् , षण्मासान् यावत् पूर्वोक्तानामन्तमुहर्तायवाधायां बद्धायुष्कानां च्यवमानानां लाभात् , षण्मासाचं द्वादशमुहूर्तान् यावच्च्यवनान्तरस्य प्रवर्तनेन कस्यापि च्यवनस्याऽनपेक्षणात् , तदुत्तरं द्वादशमुहूतेच्चवनान्तरस्यान्तप्रभृत्या तु तस्य च्यवनान्तरस्य समाप्तरर्वागन्तमुहूर्तादिमात्रायां जघन्याद्यबाधायां बद्धायुष्कानां यथोत्तरं च्यवनभावात् । अत एव द्वादशमुहूर्ताभ्यधिकषण्मासप्रमाणमायुर्वन्धान्तरमसम्भाव्यान्तमुहूतानमेवोत्कृष्टतः सम्भावितमिति ।
इत्थं हि सावधारणान्तमुहूर्तमात्राऽऽयुर्वन्धकान्तरसिद्धय न केवलं च्यवनान्तरमलम् , न वा केवलाऽन्तमुहूर्तभवस्थितिकजीवानां सार्वदिकप्राप्तिरलम् , किन्तु च्यवनान्तरसद्भावे सत्यऽन्तमुहूर्तभवस्थितिकजीवानां सार्वदिकप्राप्तिरित्येतावदेव । अत एव यत्र मार्गणासु नानाजीवापेक्षया च्यवनान्तरसद्भावे सत्यन्तमुहूर्तभवस्थितिकजीवानां सादिकसद्भावः सिद्धस्तत्र मार्गगास्वेव प्रस्तुतान्तरमन्तमुहूर्तमभिहितम् , न पुनर्निरयगत्योपादिमार्गणान्तरेषु । ननु मोच्यतां निरयगत्योधादिमार्गणान्तरेऽन्तर्मुहूर्तभवस्थितिकजीवानां सार्वदिकप्राप्तेरभावेन तत्र प्रस्तुतान्तरमन्तमुहूर्तम् , उक्तनीत्या तत्तत्र यथोक्तं किञ्चिदभ्यधिकषामासादिप्रमाणं तु वक्ष्यते ? इति चेद, न, यत उक्तयुक्त्या तस्य तावन्मात्रस्य सम्भवेऽपि, ततोऽपि प्रबलेन युक्त्यन्तरेण तत्ततः स्तोकमपि सम्भवति ।
तथाहि-बद्धायुष्कानामश्यं च्यवनभावात् , च्यवमानानां नियमतो बद्धायुष्कत्वाच्च च्यवनाऽऽयुर्वन्धौ परस्परं नियमितौ । इत्थं चौघतो मार्गणास्थानेषु वोत्कृष्टपदे च्यवनपरिमाणवदायुर्वन्धकपरिमाणं संख्येयमसंख्येयमनन्तं वा सदृशं लभ्यते, तथैव प्राक् परिमाणद्वारे प्रतिपादितं च, तेनैव न्यायेनाऽऽयुर्वन्धकान्तरमपि तत्तन्मार्गणासु ग्रन्थान्तरदर्शितनानाजीवाश्रयच्यवनान्तरेण तुल्यमेव साधनीयमुचितं प्रतिभाति, न पुनः पूर्वोक्तमभ्यधिकषण्मासादिमानम् । यद्यप्येवं तथाऽप्येकजीवापेक्षया च्यवनस्य सामयिकत्वेनाऽऽयुबन्धस्यान्तमुहूर्तिकत्वेन च बाधकसम्भावनया नाऽयमपि पक्ष उपादास्यते, किन्तु 'णाऊण णेयव्य'मित्यनेन तत्प्रतिपादकग्रन्थान्तरलाभे तेन, तदभावे तथाविधाप्तपुरुषविशेषात् , तदभावे तु प्रबलोपपत्त्यन्तरतस्तत्स्वयमुन्नेयमित्येवमेव वक्ष्यते, उक्तसाधनाभावे तस्य स्पष्टं वक्तुमयुक्तत्वात् । स्याद्यदि तत्प्रतिपादकवचनादीनामन्यतमत् , तदा तु तस्य स्पष्टं कथनेऽपि न बाधा । न चैकजीवाश्रयाऽऽयुर्बन्धकाल-च्यवनकालयोरन्तमुहूर्त-समयमात्रतया भवतूत्कृष्टपदे नानाजीवाश्रया-ऽऽयुर्वन्धकाल-च्यवनकालयोरतुल्यत्वम् , न पुनस्तयोरन्तरस्य किश्चिदापयेत, अन्तरोपपत्तावेकजीवाश्रयच्यवनकाला-ऽऽयुर्वन्धकालवैषम्यस्य बाधकत्वसम्भावनाया एवाऽनवकाशादिति वाच्यम् । नानाजीवानाश्रित्याऽऽयुर्वन्धे समाप्ते तदन्तरस्य, तदन्तरे समाप्ते पुनरपि तद्वन्धस्य प्रवृत्तेरिव नानाजीवानाश्रित्य च्यवनसमाप्तौ तदन्तस्य, तत्समाप्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org