________________
बंधाणे मूलप डिठबंधो [ मार्गणास्वायुषोऽनुत्कृष्टस्थिति ० प्रस्तुतान्तरमुत्कर्षतो दर्शयितुमाह-“पंचिदिये "त्यादि पञ्चेन्द्रियतिर्यगोघादिमार्गणासु प्रत्येकं नानाजी पायच्यवनान्तस्य सद्भावे सत्यन्तमुहूर्तभवस्थितिकजीवानां सर्वदा लाभादायुषो - ऽनुत्कृष्टस्थितेर्बन्धकानां 'ज्येष्ठम् ' उत्कृष्टमन्तरमायुषः प्रकृतिवन्धान्तरवदन्तर्मुहूर्तमेव भवेत्, नाधिकमित्यर्थः ।
३७२ ]
एतदुक्तं भवति यदाऽऽयुषः प्रकृतिबन्धो जायते, तदा कुत्रचित् समयमेकं विहाया - नुत्कृष्टस्थितिबन्धस्तस्य नियमेन प्रवर्तते एवञ्चाऽऽयुषो नानाजीवाश्रयप्रकृतिबन्धानुत्कृष्टस्थितिबन्धान्तरयोर्नास्ति किञ्चिद्विशेषः । प्रकृतिवन्धान्तरसाधनेनैवाऽनुत्कृष्टस्थितिबन्धान्तरं साधितं भवतीति भावः । आयुपः प्रकृतिबन्धान्तरं तु यत्र मार्गणायां नानाजीवाश्रयच्यवनान्तरसद्भावे सत्यन्तमुहूर्तभवस्थितिकजीवाः सर्वदा प्राप्यन्ते तत्र पञ्चेन्द्रियतिर्यगोवादि मार्गणा सूत्कर्षतोऽन्तमुहूर्तमेव प्राप्यते नाधिकमिति तादृशमार्गणास्वायुपोऽनुत्कृष्टस्थितिबन्धस्य नानाजीवाश्रयोत्कृष्टान्तरमप्यन्तमुहूर्तं लभ्यते, नाधिकम् । न चान्तर्मुहूर्त भवस्थितिकजीवानां सार्वदिकप्राप्त्यैव प्रस्तुतान्तमुहूर्तान्तरं प्रसाध्यताम्, किं नानाजीवाश्रयच्यवनान्तरस्य साधनैकदेशतया प्रवेशेनेति वाच्यम् । यत आयुर्वन्धकान्तरे सिद्धे सति तदन्तर्मुहूर्त भवस्थितिकजीवानां सार्वदिकप्राप्त्योत्कतोऽन्तर्मुहूर्तमात्रायां पर्यवस्यति, न त्वायुर्वन्यकान्तरेऽसिद्ध एव । आयुर्वन्धकान्तरं तु नानाजीवाश्रयच्यवनान्तराधीनम् । को भावः ? यत्र मार्गणायां नानाजीवाश्रयच्यवनान्तरं लभ्यते, तत्रैव मार्गणायामायुर्वन्धकान्तरमभ्युपगतम्, नान्यत्र । इत्थं हि नानाजीवा यच्यवनान्तरस्य साथनैकदेशता प्रवेश आवश्यकः । अन्यथा तदप्रवेशे केवलेनान्तमुहूर्तभवस्थितिकजीवानां सार्वदिकलाभमात्रेणैव प्रस्तुतान्तरस्याऽन्तमुहूर्तमात्रत्वसिद्धौ तिर्यग्गत्योघादिमार्गणास्थानेषु नानाssयुर्वन्धकाश्रयमन्तरमन्तर्मुहूर्त मापद्येत तत्रान्तमुहूर्त भवस्थितिकजीवानां नैरन्तर्येण लाभात् । न चेष्टापत्तिः, तिर्यग्गत्योघादिमार्गणास्थानेष्वायुर्वन्धकान्तरस्य सर्वथा प्रतिषिद्धत्वात् । न च तर्हि नानाजीवाश्रयच्यवनान्तरेणैव प्रस्तुतान्तर्मुहूर्तमायुर्वन्धकान्तरं साध्यताम्, किं पुनरन्तर्मुहूर्तभवस्थितिकजीवानां सार्वदिकसद्भावस्य हेत्वंशतया निविशेन, तिर्यग्गत्योघादिमार्गणास्थानेषु नानाजीवाश्रयच्यवनान्तरस्यैवाभावेन तावतैवोक्तापत्तेरिणसम्भवादित्यपि वाच्यम् । तथा सति निरयगत्योघादिमार्गणास्थानेषु नानाजीवाश्रवच्यवनान्तरस्याऽभिमतत्वेन तत्राऽपि प्रस्तुतान्तरमन्तमुहूर्तप्रमाणमेव वक्तव्यं स्यात् । न च तत्तथा वक्तुं युक्तम् । तत्र तस्य द्वादशमुहूर्तादिच्यवनान्तरमत्राधित्वा दीर्घस्य किञ्चिदून द्वादशमुहूर्ताभ्यधिकपण्मासादिप्रमाणस्य सम्भवात् । तथाहिनिरयगत्यो मार्गणास्थाने 'ओहे बारसमुहत्त गुरु' इति च्यवनान्तरप्रतिपादकग्रन्थान्तरवचनेन नानाजीवाश्रयं च्यवनान्तरं द्वादशमुहूर्तप्रमाणमस्ति, तथा च तत्र यदा कदाचिदुत्कृष्टायां षण्मासात्मिकायामवाधायां यावज्जघन्यायामन्तर्मुहूर्तावाधायां बद्धायुष्का नारका वर्तन्ते, ततः प्रभृति यद्यन्त★ नानाजीवाश्रय च्यवनान्तरेणैवेति तावतैवेत्यस्य भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org