________________
मार्गणास्वायुष उतकृष्टेतरस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम्
[ ३७१ उक्कोसं सेसासु अंगुलभागो असंखयमो" ||४१८।। इत्यस्या गाथाया वृत्तावुक्त व्याप्त्यनुसारेणोपपादनीयमिति ॥४२४॥ अथायुषोऽनुत्कृष्टस्थितेर्बन्धकानामन्तरं प्रतिपिपादयिषयाऽऽर्याद्वयमाह
जहि सब्बद्धा कालोऽणुक्कोसठिईअ आउगस्स भवे । तहि तीअ अंतरं णो सेसासु भवे लहु समयो ॥४२५॥ पंचिंदियतिरिय-विगल-पणिंदिय-तसेसु-सिं अपज्जेसु।
भिन्नमुहुत्तं जेट्ट अण्णह णाऊण णेयव्वं ॥४२६॥ (प्रे०) "जहि" इत्यादि, "जहि" त्ति 'यत्र' यासु मार्गणासु “सव्वडा कालोऽणुकोसठिईअ आउगस्स भवे" ति ‘सबद्धाउस्स भवे अगुरुठिईअ तिरियम्मि' इत्यादि, गाथा(३९५-३९६-३९७) त्रयेणायुषोऽनुत्कृष्टस्थितेर्वन्धकानां कालोऽनन्तरगते कालद्वारे सर्वाद्धा भणितः "तहि" ति तासु तिर्यग्गत्योध-पर्याप्तबादरभेदवर्जषट्पृथिविकाय-पडप्काय-षटतेजस्कायषडवायुकाय-बनस्पतिकायौघा-ऽपर्याप्तभेदवर्जप्रत्येकवनस्पतिकायभेदद्वय-सर्वसाधारणवनस्पतिकायभेदकाययोगोधौ-दारिककाययोगौ-दारिकमिश्रकाययोग-नपुंसकवेद-क्रोधादिकषायचतुष्क-मत्यज्ञान-- श्रुताज्ञाना--संयमा-ऽचक्षुदर्शना-ऽशुभलेश्यात्रिक-भव्या-ऽभव्य-मिथ्यात्व-संश्य-ऽऽहारकलक्षणासु द्विषष्टिमार्गणासु "तो" ति तस्या आयुषोऽनुत्कृष्टस्थितेः "अंतरं णो" त्ति प्रस्तुतत्वाद्वन्धकानामन्तरं न भवति । सुगमः, बन्धककालस्यैव सर्वाद्धात्वात् । बन्धककालः सर्वाद्धा तु कालद्वारे बन्धकपरिमाणबाहुल्यादुपपादित इति तत एवावसेयः ।।
शेषमार्गणासु प्रस्तुतान्तरस्य सम्भवात्तदादौ जघन्यत आह-"सेसासु" इत्यादि, अनन्तरोक्ततिर्यग्गत्योघादिद्विषष्टिमार्गणा अपहाय शेषासु यास्वायुर्वन्धो भवति, तासु निरयगत्योपाद्यकोत्तरशतमार्गणासु प्रस्तुतमायुषोऽनुत्कृष्टस्थितेर्बन्धकानां सर्वथाऽभावलक्षणमन्तरं "लहुं समयो" त्ति 'लघु' जघन्यं 'समयः' समयमात्रं भवेदित्यर्थः । सुगमम् , शेषमार्गणास्वायुषोऽनुत्कृष्टस्थितेबन्धकपरिमाणस्योत्कृष्टपदेऽपि स्वल्पत्वात् , असंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वादिति भावः । ततः किम् ? ततो भवति कदाचित् सर्वथा प्रस्तुतबन्धकाभावः, तथा च तादृशसर्वजघन्यसमयमात्रान्तरकालात्पूर्वोत्तरसमयेष्वायुषोऽनुत्कृष्टस्थितिबन्धकानां सम्भवे प्रस्तुतान्तरं जघन्यतः समयमात्रं प्राप्यते। भावना त्वन्यान्यजीवापेक्षया प्रागिव द्रष्टव्या, न त्वेकजीवापेक्षया विवक्षितैकजीवेनाऽऽयुर्वन्धे निष्ठापिते पुनरप्यन्तमुहूर्तादिकालादर्वाक् तस्यैवायुर्वन्धाऽप्रवर्तनात् , अत एवैकजीवाश्रयान्तरप्रस्ताव आयुषोऽनुत्कृष्टस्थितिबन्धजघन्यान्तरमन्तमुहूर्त प्रदाऽप्यत्र नानाजीवापेक्षया तत् समयमानं प्रदर्शितमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org