________________
३७० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थिति. “परमं आहारदुगे वासपुहुने" ति आहारका-ऽऽहारकमिश्रकाययोगमार्गणाद्विके 'परमम्'-उत्कृष्ट मन्तरं वर्षपृथक्त्वम् । एतदपि नानाजीवाश्रयमार्गणान्तरस्य वर्षपृथक्त्वात्पूर्ववदवसातव्यम् । अभिहितं च जीवसमासे-“आहारभिस्सजोगे वासपुहुत्तं” इति । “आहारमाइ लोए छम्मासं जा न होति उ कयाई"त्यादिवचनात्पुनरन्यथा प्रकृतान्तरं षण्मासमात्रमपि ज्ञायते, नवरं तन्नात्राधिकृतम् , अतो श्रीप्रज्ञापनायभिप्रायेण तु तद्विशेषतः स्वयमेव द्रष्टव्यमत्रोत्तरत्र चेति । ____ "अवेअसुहुमेसु णायव्वं छम्मासा" त्ति अपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायां च प्रत्येकमुपशमकानामिवानुत्कटस्थितिवन्धकानां क्षपकाणामपि प्रवेशात् तेषामुत्कष्टान्तरस्य “खवगेसु छम्मासा" इति वचनेन पण्मासप्रमाणत्वाच्च प्रकृतोत्कृष्टान्तरमपि षण्मासप्रमाणं ज्ञातव्यमिति भावः।
"होइ उवसमम्मि सत्त दिणा" त्ति उपशमसम्यक्त्वमार्गणायां प्रकतान्तरं सप्त दिनानि, सप्ताहोरात्राणीत्यर्थः । उपशमकानां सर्वथाऽभावलक्षणोत्कृष्टान्तरस्य वर्षपृथक्त्वप्रमाणत्वेऽपि प्रस्तुतमार्गणायां न त एवानुत्कृष्टस्थितिबन्धस्वामिनः, किन्तु प्रथमोपशमसम्यक्त्वभाजोऽपि, तेषां चान्तरं सप्त दिनान्येवोत्कृष्टतोऽप्यवसातव्यमिति भावः। ___अथ छेदोपस्थापनपरिहारविशुद्धिकतंयममार्गगयोः प्रकृतमाह-'छेए परिहारम्मि ये" त्यादिना, अक्षरार्थस्तु सुगमः । भावनाऽपि तयोईयोर्मार्गणोत्कष्टान्तरापेक्षयैव कर्तव्या । उत्कष्टान्तरं पुनस्तयोरेवमुक्तम्-'छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नणं तेवढिइ वाससहस्साइ, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ । परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं चउरासीइ वाससहस्साई, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ' इति व्याख्याप्रज्ञप्तिपञ्चविंशतितमशतकसप्तमोदेशके सामायिकसंयतादीनामन्तराधिकारे । इति गाथात्रयार्थः ॥४२१-४२२-४२३॥
तदेवमभिहितं सप्तानां मूलप्रकतीनामुत्कष्टानुत्कष्ट स्थित्योबन्धकानां यथासम्भवमन्तरम् । सम्प्रति शेयस्याऽऽयुःकर्मणस्तदादेशतो दिदर्शयिषुरादावुत्कष्टस्थितिमधिकृत्याह
आउस्मुक्कोसाए ठिईअ सव्वासु अंतरं णेयं ।
हस्सं समयो जेट्ट अंगुलभागो असंखयमो ॥४२४॥ .. (प्रे०) “आउस्सुक्कोसाए" इत्यादि, निरयगत्योघायाहारिपर्यन्तास्वायुर्वन्धप्रायोग्यासु सर्वासु मार्गणास्वायुप उत्कष्टायाः स्थितेः “अंतरं यं" ति नानाजीवाश्रयं बन्धकानां सर्वथाऽभावलक्षणमन्तरं ज्ञेयम् । कियदित्याह-"हस्सं समयो" त्ति 'ह्रस्वं' लघु 'समयः' समयमात्रम्, “जे अंगुलभागो असंखयमो"त्ति 'ज्येष्ठ' दीर्घ पुनस्तत्क्षेत्रतोऽङ्गुलस्याऽसंख्यतमो भागः, अगुलासंख्यभागप्रमाणक्षेत्रप्रदेशानां प्रतिसमयाऽपहारलक्षणा असंख्येया उत्सर्पिण्यवसर्पिण्य इत्यर्थः । एतच्च ह्रस्वेतरं द्विविधमप्यन्तरं "सेसासु लहु समयो वासपुहुत्तं अवेअसुहमेसु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org