________________
मागणास्वायुर्वर्जानामनुत्कृष्टस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम्
[ ३६९ 'छेदोवट्ठावणियं पुच्छा, गोयमा ! जहन्नेणं तेसहिँ वाससहस्साई', उक्कोसेणं अट्ठारस सागरोपमकोडाकोडिओ, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं चउरासीई वाससहस्साई', उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ' इति ।
न च जीवानां सर्वथाऽभावलक्षणमन्तरं मा भवतु समयमात्रं, सप्तानामनुत्कृष्टस्थितेर्बन्धकानामन्तरं तु तावत्स्यात् , को दोपः ? इति वाच्यम् । यतः प्रकृतमार्गणागतसर्वजीवानां सममेवोत्कृष्टस्थितिबन्धसद्भावे तावदन्तरस्य सम्भवः, सममेव सर्वेषामुत्कृष्टस्थितिबन्धसद्भावे त्वन्तमुहूर्तादुवं तेषां सर्वजीवानां मिथ्यात्वादौ गमने प्रकृतमार्गणाया एवान्तरं प्रवर्तेत, तत्तु नेष्यते, यदा तु सर्वे जीवामार्गणान्तरं गच्छन्ति, तदा तु यथोक्तान्तरमेव प्राप्यते, न पुनः सामयिकम् । इत्थं न कुतश्चिदपि प्रकृतानुत्कृष्टस्थितेर्बन्धकानामन्तरं जघन्यतः समयादिमानं भवितुमर्हतीतिकृत्वा शेषमार्गणापेक्षया दीर्घ . यथासम्भवमुक्तमिति ॥४१९-४२०॥ अथोक्तशेषमार्गणानां निरन्तरत्वात्तत्र प्रकृतान्तरं निषेधयन् तथा-ऽनन्तरोक्तसान्तरमार्गणासु प्रकृतान्तरमुत्कर्षतः प्रतिपादयन्नाह
सेसासु अंतरं णो अपज्जणर-मीस-सासणेसु गुरु। पल्लाऽसंखियभागो बारमुहुत्ता विउवमीसे ॥४२१॥ परमं आहारदुगे वासपुहुत्तं अवेअ-सुहुमेसु । णायव्वं छम्मासा होइ उवसमम्मि सत्तदिणा ॥४२२॥ छेए परिहारम्मि य अयरा अट्ठार कोडिकोडिओ।
उक्कोसमंतरं खलु होइ ठिईए अजेट्टाए ॥४२३॥ (प्रे०) “सेसासु अंतरं णो” इत्यादि, उक्तशेषासु निरयगत्योधादिमार्गणासु सप्तानामनुत्कृष्टस्थितेर्बन्धकानामन्तरं “णो" ति न यतीत्यर्थः। कुतः ? प्रत्येकं मार्गणानां निरन्तरत्वादिति । अथाऽपर्याप्तमनुष्यादिमार्गणानां सान्तरत्वेन तत्राऽनुत्कृष्टस्थितेर्बन्धकानां जघन्यमन्तरमभिहितम्, न पुनरुत्कृष्टमिति तदेव दर्शयन्नाह-"अपज्जणरमोसे"त्यादि, अपर्याप्तनरभेदे सम्यग्मिथ्यात्वे सासादने च "गुरु" ति सप्तानामनुत्कष्टस्थिते नाबन्धकाश्रयं 'गुरु' उत्कृष्टमन्तरं “पल्लाऽसंखियभागो" ति पल्योपमाऽसंख्यभागप्रमाणं भवतीत्यर्थः । कुतः ? मार्गणात्रयस्योत्कृष्टान्तरस्य तावत्प्रमाणत्वात् । यदुक्तं जीवसमासे
'पल्लाऽसंखियभानं सासण-मिस्सा-ऽसमत्तमणुएसु' इति । "बारमुहुत्ता विउवमीसे" त्ति प्रकतान्तरं वैक्रियकाययोगमार्गणायां द्वादश मुहूर्ता भवतीत्यर्थः । अत्राऽपि मार्गणोत्कृष्टान्तरस्य तथात्वादेवेति हेतुर्वोद्धव्यः । उक्तं चैतदपि जीवसमासे-विउव्विमिस्सेसु । बारस हुति मुहुत्ता' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org