________________
३६८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थिति० तु या अपर्याप्तमनुष्यायेकादशसान्तरमार्गणास्तास्वेव प्राप्यते, नान्यासु । कुतः ? नानास्थितिबन्धस्थानात्मकानुत्कृष्टादिस्थितिवन्धस्य जीवनबहुकालभावितया सर्वदा तद्वन्धकानां लाभेनाऽनन्तरं कालद्वारे सर्वाद्धाया अभिहितत्वात् । सान्तरमार्गणासु तु तयोरुत्कृष्टमन्तरं मार्गणाया नानाजीवाश्रयोत्कृष्टान्तरप्रमाणं प्राप्यते, जघन्यं तु यथासम्भवं समयादिकम् ।
इत्यतोऽपगतवेदमार्गणायां सूक्ष्मसम्परायमार्गणायां च प्रकृतोत्कृष्टान्तरं स्तोकमभिहितम् ,तत्रोपशमश्रेणिगतानामेवोत्कृष्टस्थितिबन्धस्वामित्वात् । शेपमार्गणासु तु श्रेणिबहिःस्थानामेवोत्कृष्टस्थितिबन्धस्वामित्वात्तदुत्कृष्टतोऽङगुलाऽसंख्यभागप्रमाणमभिहितम् , जघन्यं च शेषसर्वमार्गणास समयमानं दर्शितमिति ॥४१८॥
तदेवमुक्तं सप्तानामुत्कृष्टस्थिते नाान्धकाश्रयमन्तरम् । साम्प्रतं तासामेवाऽऽयुर्वर्जसप्तानामनुत्कृष्टायाः स्थितेस्तं दर्शयन्नाह
सत्तण्ण अपजणरे आहारदुगे विउब्वमीसे य । गयवेए सुहमम्मि य उवसम-सासाण-मीसेसु॥४१९॥ समयोऽणुक्कोसाए ठिईअ हस्सं सहस्सवासाणि ।
तेवट्ठी चुलसीई कमसो छेअ-परिहारेसु॥४२०॥ (प्रे०) “सत्तण्हे"त्यादि, तत्र 'सत्तण्ड' इत्यस्य 'समयोऽणुकोसाए ठिईअ हस्स' मिति परेणान्वयः, तत आयुर्वर्जानां सप्तानां मूलप्रकतीनामनुत्कष्टायाः स्थितेः 'हस्वं' जघन्यमन्तरं समयः, अस्तीति शेषः । कास मार्गणास्वित्याह-"अपजणरे” इत्यादि, अपर्याप्तमनुष्यमार्गणायामाहारक -- ऽऽहारकमिश्रकाययोगमार्गणाइये वैक्रियमिश्रकाययोगमार्गगावामपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायामापशमिकसम्यक्त्व-सासादन-मिश्रदृष्टिमार्गणासु च प्रत्येकमित्यर्थः । "सहस्सवासाणि तेवट्ठी चुलसीई कमसो” ति ‘णुकोसाए ठिई हम्म मिति काकाक्षिगोलकन्यायेनाऽत्रापि सम्बध्यते, ततः सप्तप्रकृतीनामनुत्कृष्टायाः स्थितेर्बन्धकानां ह्रस्वमन्तरं वर्षसहस्राणि त्रिषष्टिश्चतुरशीतिश्च क्रमशः, भवतीति शेषः । कुत्रेत्याह-"छेअपरिहारेसु” ति छेदोपस्थापनसंयमे परिहारविशुद्धिकसंयमे चेत्यर्थः । इदमुक्तं भवति-अपर्याप्तमनुष्याद्यनन्तरोक्तनवमार्गणावपर्याप्तमनुष्यादितया जीवानां सर्वथाऽभावलक्षणमन्तरं जघन्यतः समयमानं सम्पद्यते, ततश्च तासु मार्गणासु सप्तानामनुत्कृष्टस्थितेवन्धकानां सर्वथाऽभावलक्षणं जघन्यमन्तरमपि समयमानं प्राप्यते, न चैवं च्छेदोपस्थापन-परिहारविशुद्धिकसंयममार्गणयोरपि । कस्मात् ? तयो नाजीवाश्रयजघन्यान्तरस्याऽप्युक्तप्रमाणत्वात् । उक्तं च श्रीपञ्चमागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org