________________
मार्गणास्वायुर्वर्जसप्तानामुत्कृष्टस्थिति०] द्वितीयाधिकारेऽन्तरद्वारम्
[ ३६७ एकेन्द्रियौघादिद्वात्रिंशन्मार्गणास्थानेष्वायुर्वर्जसप्तकर्मणां ज्येष्ठस्थिते नाबन्धकाश्रयसद्धिाप्रतिपादिके गाथे पुनरिमे'सत्तण्ह बंधगाणं उक्कोसार ठिईअ सव्वद्धा । सव्वेसं एगिदिय-णिगोअमेएसु वणकाये ॥३८१।।। असमत्तबायरेसुं पत्तेअवण-पुहवाइचउसुं च । तह पुहवाइचऊण्हं सव्वेसुं सुहुमभेएसुं ॥३८२।।" इति ।
अथ शेषमार्गणासु प्रकृतं सप्तकर्मणामुत्कृष्टस्थितिसत्कनानावन्धकाऽऽश्रयमन्तरं जघन्योत्कृष्टभेदतः प्रतिपादयन्नेकामार्यामाह
सेसासु लहुं समयो वासपुहुत्तं अवेअ-सुहुमेसु।
उक्कोसं सेसासुअंगुलभागो असंखयमो ॥४१८॥ (प्रे०) “सेसासु लहु"मित्यादि, एकेन्द्रियौवादिद्वात्रिंशन्मार्गणावर्जासु शेषासु निरयगत्योघायष्टत्रिंशदुत्तरशतमार्गणास प्रत्येकं "लहुं" ति प्रकृतत्वात् सप्तानामुत्कृष्टायाः स्थितेर्बन्धकानां 'लघु'-जघन्यमन्तरं 'समयः'-समयमात्रं,भवतीति शेषः । कथम् ? एकेन समाप्त उत्कृष्टस्थितिबन्धे समयान्तरेण तस्यैव तत्प्रवृत्तरशक्यत्वेऽपि तदन्यस्य तत्प्रवृत्तेः शक्यत्वादिति ।
___ अथ प्रकृतमेवोत्कृष्टत आह-“वासपुहुत्तं अवेअसुहुमेसु" ति अपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायां च सप्तानामुत्कृष्टस्थितेर्बन्धकानां वर्षपृथक्त्वमन्तरम् "उक्कोस" ति 'उत्कृष्टम्' उत्कृष्टपदे ज्ञेयम् । सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्वामिनां प्रतिपतच्चारित्रमोहोपशमकानां वर्षपृथक्त्वं यावत् सर्वथाऽभावस्यापि सम्भवात् । कुतः सम्भवः ? नानाजीवानाश्रित्योपशमश्रेणेरुत्कृष्टान्तरस्य तावत्प्रमाणत्वात् । उक्तं चान्यत्र-“वासपुहुत्तं उवसामएसु" इति । ___अथोक्तशेषास्वाह-"सेसासु अंगुलभागो असंखयमो" ति एकेन्द्रियौघादिद्वात्रिंशन्मार्गणा अपगतवेदसूक्ष्मसम्परायसंयममार्गणे च विहाय याः शेषा निरयगत्योघादिषट्त्रिंशदभ्यधिकशतमार्गणास्तासु शेषसर्वमार्गणासु प्रकृतोत्कृष्टान्तरमगुलस्य भागोऽसंख्यतमः, ओघवदमुलासंख्यभागप्रमाणक्षेत्रगताऽऽकाशप्रदेशापहारलक्षणाऽसंख्योत्सर्पिण्यवसर्पिण्य भवतीत्यर्थः ।
इदमत्र हृदयम्-यासु मार्गणासु सप्तकर्मणां तत्तत्स्थितेर्बन्धकानामसंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वाद्वन्धकान्तरसम्भवस्तासु प्रत्येकमेकस्थितिबन्धस्थानात्मिकाया उत्कृष्टाया जघन्याया वा स्थितेर्बन्धका यदि श्रेणिबहिस्थास्तदा तस्या उत्कृष्टाया जघन्याया वा स्थिते नाबन्धकाश्रयमुत्कृष्टमन्तरमगुलाऽसंख्यभागप्रमाणं यथोक्तमेव प्राप्यते, यदि च तयोरेकस्थितिबन्धस्थानात्मिकयोः स्थित्योबन्धकाः श्रेणिगतास्तदा त्वपगतवेदादिमार्गणावत् श्रेण्यन्तरकालानुसारेणोत्कृष्टान्तरं स्तोकं प्राप्यते, जघन्यान्तरं तु तयोस्सर्वत्र समयमात्रमासाद्यते । कुतः ? विवक्षितजीवैनिष्ठापिते जघन्यादिस्थितिबन्धेऽन्यै वैः समयान्तरेणैव तस्थितिबन्धस्य निर्वर्तयितुं शक्यत्वात् । सप्तानां नानास्थितिवन्धस्थानात्मकयोरनुत्कृष्टाऽजघन्यस्थितिबन्धयोः प्रकृतं नानाबन्धकाश्रयमन्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org