________________
॥ अथ त्रयोदशमन्तरद्वारम् ॥
साम्प्रतं क्रमप्राप्ते नानाजीवाश्रयेऽन्तरद्वारे मूलाष्टकर्मसत्कोत्कृष्टादिस्थितेर्वन्धकानामन्तरं व्या चिकीषुरादौ तावदुत्कृष्टानुत्कृष्टस्थित्यधिकृत्यौघत आह
अंतरमट्टन्ह लहूं जेडाअ ठिईअ बंधगाण खणो । अंगुलअसंखभागो परमं अगुरूअ णेव भवे ॥ ४१६॥
(प्रे०) "अंतरमहे" त्यादि, अष्टानां ज्ञानावरणादिमूलप्रकृतीनां 'ज्येष्ठायाः ' -उत्कृष्टायाः स्थितेर्वन्धकानां 'लघु' - जघन्यमन्तरं सर्वथाऽभावलक्षणं " खणो" ति समयः, समयमात्रं भवेदिति गाथाप्रान्तेऽन्वयः । "अंगुल असंख भागो परमं" ति तेषामेवाऽष्टप्रकृतिसत्कोत्कृष्टस्थितेर्वन्धकानां 'परमं' -दीर्घ मन्तरमगुलाऽसंख्य भागः, अङ्कुलासंख्य भागप्रमाणक्षेत्रगताकाशप्रदेशेषु प्रतिसमयं नैरन्तर्येणै कैका काशप्रदेशेऽपहीयमाणे यावान् कालोऽपगच्छति, तावानसंख्येयोत्सपिण्यवसर्पिणीप्रमाणकालो भवेदित्यर्थः । “अगुरूअ णेव भवे” त्ति अष्टानामपिमूलप्रकृतीनामगुरो:- अनुत्कृष्टायाः स्थितेर्वन्धकानां नैव भवेत् प्रकृतत्वादन्तरमिति गम्यत इति । अत्र समयप्रमाणाद्युक्तान्तरस्य भावना त्वनन्तरमेव मार्गणास्थानेषु वक्ष्यमाणसमयाद्यन्तराणामुपपच्यनुसारेण द्रष्टव्या, तत एव प्रकृतसमयाद्यन्तराणां सुखावसेयत्वादिति ॥४१६ ॥
9
अथ मार्गणास्थानेषु प्रकृतान्तरं दिदर्शयिषुरादौ तावदायुर्वर्ज सप्तप्रकृतीरधिकृत्याह - जासु' जेडटिईए कालो सत्तण्ह होइ सव्वद्धा । तासु जेडटिईए सत्तण्हं अंतरं णत्थि ||४१७||
(प्रे०) "जासु जेठिईए" इत्यादि, यास्वेकेन्द्रियौघादिद्वात्रिंशन्मार्गणा स्वायुर्वर्जानां सप्तानां कर्मणां 'ज्येष्ठायाः' - उत्कृष्टायाः स्थितेः "कालो" ति नानावन्धकाथ यकालः सर्वाद्धा प्रारंभणितो भवति, तासु मार्गणासु सप्तानां ज्येष्ठस्थिते: “अंतरं" ति प्रकृतं नानावन्धकाश्रयमन्तरं 'नास्ति' न विद्यत इत्यर्थः । कुतः १ इति चेद्, बन्धककालस्य सर्वाद्धात्वादेव । इदमुक्तं भवति - पत्र मार्गणादौ यस्याः उत्कृष्टाया अनुत्कृष्टाया जघन्याया अजघन्याया वा स्थितेर्वन्धकानां परिमाणमसंख्येयलोकादिप्रमाणं तस्याः स्थितेर्वन्धकास्तत्र मार्गणादौ निरन्तरं प्राप्यन्ते, ततस्तत्रं तद्बन्धकानां कालः प्राक् सर्वाद्धाऽभिहितः । यतो बन्धकानां कालः सर्वाद्धाः, अर्थाद् बन्धकप्राप्तिर्निरन्तराः, तत एव बन्धकानामन्तरं न भवतीति तु सुगमः, निरन्तरस्यैवान्तराभावाऽर्थकत्वात्, इत्येवमन्योन्यगमकत्वात् सर्वाद्धा - निरन्तरयोरिति । इत्थमेवानन्तरमोघतोऽष्टकर्मणामनुत्कृष्टस्थितेर्बन्धकानामन्तरप्रतिषेधे मार्गेणास्थानेषु वक्ष्यमाणान्तरप्रतिषेधे च विभावनीयमिति ॥ ४१७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org