SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ [ ३५९ मार्गणास्वायुषो जघन्येतर स्थिति० ] द्वितीयाधिकारे कालद्वारम् इति गाथापञ्चकेना-ऽऽयुर्वर्जसप्तकर्मणामनु-कृष्टायाः स्थिते नाजीवाश्रितकाल एकादशमार्गणासु सावधिकतया जघन्यत उत्कृष्टश्च यावानभिहितस्तावान् सप्तानामजघन्यस्थितेरपि बोद्धव्यः । शेषमागंणास त्वसो निरवधिकतया सर्वाद्धैव बोद्धव्यः । इत्थं हतिदेशे कृते याऽतिप्रसक्तिस्तां निराकुर्वनाह-"णवरि” इत्यादि, नवरं तत्रापर्याप्सनरमार्गणायां सप्तानामनुत्कृटस्थितेर्जघन्यः कालः 'समयो असमत्तणरे'इत्यनेन समयमात्रः कथितः सोऽत्र तथा न वक्तव्यः, किन्तु “खुड्डुभवो दुसमय होणो” त्ति, दिसमयोनक्षल्लकभवः सप्तानामजघन्यस्थितेर्जघन्यकालतयाऽभिधातव्य इत्यर्थः । कुतः ? इति चेद् , अपर्याप्तमनुष्यमार्गणायां सप्तानां जघन्यस्थितेर्बन्धकालस्य विग्रहगतो भवप्रथमद्विसमययोरेव सम्भवेनाऽजघन्यस्थितेवेन्धकालो भवतृतीयसमयादारभ्या जीवनं नैरन्तर्येण प्राप्यते, स चाजघन्यस्थितिसत्कैकजीवाश्रयजघन्यवन्धकालानुसारेण बोद्धव्यः । शेषसर्वमार्गणासु त्वतिदिष्टद्विविधकालोऽपर्याप्तमनुष्यमार्गणायामुत्कृष्टकालश्च सर्वथैवानुत्कृष्टस्थितेः प्राग्भावितकालानुसारेण भावनीय इति ॥४१३।। तदेवं दर्शितः सप्तानां जघन्याऽजघन्यस्थित्यो नाबन्धकाश्रयो द्विविधोऽपि कालो यथायथमतिदेशादिना । साम्प्रतमवशेषस्याऽऽयुःकर्मणस्तं प्रतिपिपादयिषुरतिदेशादिनैव प्राह जासु अणुक्कोसाए ठिईअ आउस्स होइ सव्वद्धा। तासु तह से लहूए उक्कोसठिइब्ब सेसासु ॥४९४॥ णवरा-ऽऽवलिआऽसंखियभागो णर-देस-सासणेसु गुरू । णेयो अजहण्णाए ऽणुक्कोसठिइब सब्बासु॥४१५॥ (प्रे०) “जासु अणुक्कोसाए” इत्यादि, यासु मार्गणास्वायुषोऽनुत्कृष्टायाः स्थितेर्नानाजीवाश्रितकालः "होइ सत्वहा” ति प्राक “सव्यद्धाउस्स भवे अगुरुठिईअ तिरियम्मि” इत्यादिगाथात्रयेण सर्वाद्धाऽभिहितो भवति “तासु तह से लहूए” त्ति तासु तिर्यग्गत्योघादिद्विषष्टिमागंणासु "से" ति तस्यायुपो 'लयोः'-जघन्यायाः स्थितेः'तथा' -तइत्, सर्वाद्धा इति यावत् । नानाबन्धकाश्रयकाल इति तु गम्यते । इदमुक्तं भवति-तिर्यग्गत्योघे, सर्वेबैकेन्द्रियभेदेषु, सर्वेषु साधारणवनस्पतिकायभेदेषु, पृथिव्यप्तेजोवायुवनस्पतिकायौघभेदेषु, सूक्ष्मपृथिव्यप्तेजोवायुकायोघतत्पर्याप्ता-ऽपर्याप्तभेदेषु, बादरपृथिव्यप्तेजोवायुकायौघ-तदपर्याप्त भेदेषु, प्रत्येकवनस्पतिकायौघ-तदपर्याप्तभेदयोः, काययोगसामान्यौ-दारिककाययोगौ-दारिकमिश्रकाययोग--नपुसकवेद-कषायचतुष्काऽज्ञानद्विका-संयमा-ऽचक्षुर्दर्शन-कृष्ण-नील-कापोतलेश्या--भव्या-ऽभव्य-मिथ्यात्वा-ऽसंख्या-ऽऽहारिमार्गणासु प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्बन्धकपरिमाणबदायुषो जघन्यस्थितेर्बन्धकपरिमाणस्याऽप्यसंख्येयलोकादिप्रदेशराशितुल्यत्वान्नानाबन्धकाश्रयः कालोऽपि सर्वद्धैव प्राप्यत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy