________________
३६० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो जघन्यस्थिति० "उक्कोसठिइव्व सेसासु" ति उक्तशेषमार्गणासु प्रत्येक मुत्कृष्टस्थितिवद्'-उत्कृष्टस्थितेर्बन्धकानां ह्रस्वेतरकालवज्जघन्यस्थितेर्बन्धकानां ह्रस्वेतरकाल इत्यर्थः । अत्रैवापवदन्नाह"णवरावलि" इत्यादि, 'नवरं'-परं 'णरदेससासणेसु' ति शेषमार्गणागतास नरगत्योध-देशसंयम-सासादनरूपास तिसृषु मार्गणास प्रत्येकमायुषो जघन्यस्थितेवन्धकानां 'गुरु'-दीर्घः काल 'आवल्यसंख्येयभागः' आवलिकाया असंख्येयतमैकभागगतसमयप्रमाणः । अयम्भाव:-असंख्यलोकप्रदेशराश्यपेक्षया स्तोकबन्धकपरिमाणासु निरयगत्योघाद्यकोत्तरशतशेषमार्गणास्वेकजीवाश्रयोस्कृष्टस्थितिबन्धका उमज्जघन्यस्थितेर्वन्धकालस्य समयमात्रत्वेन तुल्यत्वेऽप्यायुष उत्कृष्टजघन्यस्थित्योर्बन्धकपरिमाणं तु मनुष्यगत्योध-देशसंयम-सासादनवर्जासु शेषनिरयगत्योघादिमार्गणास्वेव तुल्यम् , न पुनर्मनुष्यगत्योघादिमार्गणात्रयेऽपि, तत्र मार्गणात्रये आयुष उत्कृष्टस्थितेर्बन्धकपरिमाणस्य संख्येयत्वात् तदीयजघन्यस्थितेर्बन्धकपरिमाणस्य त्वसंख्येयत्वात , इत्यतः 'उकोसहिइव्व सेसा' इत्यनेन शेषसर्वमार्गणासु सामान्यतोऽतिदिष्टोऽपि प्रस्तुतकालो मनुष्यगत्योधादिमार्गणाचतुष्के पश्चादपोद्याऽऽवल्यसंख्यभागप्रमाणो दर्शितः ।
इत्थं च शेषमार्गणास्वायुषो जघन्यस्थितेः प्रस्तुतकाल इयान प्राप्यते-पर्याप्तमनुष्य-योनिमन्मनुष्यभेदौ,आनतकल्पाद्या अष्टादशदेवगतिभेदाः, आहारका-ऽऽहारकमिश्रकाययोगमति-श्र ता--ऽवधि--मनःपर्यवज्ञान--संयमौघ-सामायिक-छेदोपस्थान-परिहारविशुद्धिकसंयमा-ऽवधि - दर्शन-शुभलेश्यात्रिक-सम्यक्त्वोध-क्षायिक-क्षायोपशमिकसम्यक्त्वमार्गणाश्चेत्येतासु सप्तत्रिंशन्मार्गणासु प्रत्येकमायुषो जघन्यस्थिते नाबन्धकाश्रयो दीर्घः कालः संख्येया समयाः। सर्वे निरयगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदा;मनुष्यौघा-ऽपर्याप्तमनुष्यभेदौ, देवगत्योघ-सहस्रारान्तदेवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, पर्याप्तवादरपृथिव्यप्तेजोपायुकायभेदाः, पर्याप्तप्रत्येकवनस्पतिकायभेदः, सर्वे त्रसकायभेदाः, पञ्चमनोयोगभेद-पञ्चवचोयोगभेद-बैक्रियकाययोग-स्त्रीवेदपुवेद-विभङ्गज्ञान-देशसंयम-चक्षदर्शन-सासादन-संज्ञिमार्गणाश्चेत्येतासु चतुःषष्टिमार्गणासु तु प्रकृतकाल उत्कर्षत आवलिकाया असंख्येयभागः । एताश्चतुःषष्टिमार्गणास्तथाऽनन्तराभिहिताः सप्तत्रिंशन्मार्गणा इत्येवमेकोत्तरशतमार्गणासु त्वायुषो जघन्यस्थितेः प्रकृतकालो जघन्यत एकसमय इति । ___अथाऽऽयुषोऽजघन्यस्थितेः प्रकृतकालमतिदिशति-“णेयो अजहण्णाए” इत्यादिना, सुगमम् । अत्रापि भावनाऽनुत्कृष्टस्थिते नाबन्धकाश्रयकालवदेव द्रष्टव्येति ।।४१४-४१५॥
तदेवं प्ररूपितः शेषस्याऽऽयुषोऽपि जघन्याऽजघन्यस्थित्योर्वन्धकानां सम्भवजघन्योत्कृष्टद्विविधकालः, तस्मॅिश्व प्ररूपिते गतं नानाजीवाश्रितं कालद्वारम् ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे द्वादशं नानाजीवाश्रयकालद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org