SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३५८ ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामजघन्यस्थिति इति चेद्, भण्यते-यथौधिकोत्कृष्टस्थितेर्बन्धकपरिमाणं प्रकृतैकैकमार्गणासत्कपरिमाणं च न तुल्यम् , किन्तु हीनाधिकमपि सद् असंख्येयस्याऽसंख्येयभेदभिन्नतयाऽसंख्येयमिति तुल्यव्यपदेशं भजते, तथा पल्योपमासंख्येयभागप्रमाणोधिकोत्कृष्टस्थितिवन्धकालविषये प्रकृततत्तन्मार्गणासत्ककालविषये च 'पल्योपमासंख्येयभाग' इत्येवंरूपव्यपदेशसाम्यमेव, न पुनः कालसाम्यमपि, कालस्य तु बन्धकपरिमाणाद्यनुसारेण हीनाऽधिकस्य सम्भवादिति । _ "सेसासु” त्ति उक्तशेषासु मनुष्यगत्योधादिचतुःपञ्चाशन्मार्गणासु प्रत्येकमेकजीवाश्रयस्य सप्तानां जघन्यस्थितेर्बन्धकालस्योत्कृष्टतोऽन्तमुहूर्तत्वेऽपि बन्धकपरिमाणस्य संख्येयत्वात नानाजीवाश्रितो जघन्यस्थितेरुत्कृष्ट कालोऽप्यौधिकजघन्यस्थितेरुत्कृष्ट कालवदन्तमुहूर्तमेव प्राप्यते, न पुनस्तदधिक अतस्तथैव दर्शयन्नाह-"भवे मुहुत्तो” ति सप्तानां जघन्यस्थिते नान्धकाश्रय उत्कृष्ट कालो 'मुहूर्तान्तः'-मुहूर्ताभ्यन्तर्वती भवेत् , अन्तम हृतमिति यावदिति । शेषमार्गणाऽभिधानानि त्वेवम्-अपर्याप्तभेदवर्जास्त्रयो मनष्यगतिभेदाः,सर्वार्थसिद्धाभिधदेवगतिभेदः, ओघपर्या भेदभिन्नौ द्वौ पञ्चेन्द्रियजातिभेदो, तथैव द्वौ बसकायभेदौ, पञ्चमनोयोग-पञ्चवचोयोगकाययोगसामान्या-दारिककाययोगा-ऽऽहारका-ऽऽहारकमिश्रकाययोग-वेदत्रया-ऽपगतवेद-कपायचतुष्कमत्यादिज्ञानचतुष्क-विभङ्गज्ञान-संयमोघ-सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयम-देशसंयम-चक्षुरादित्रिदर्शन-तेजः-पम-शुक्ललेश्या-भव्य-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकौ-- पशमिकसम्यक्त्व-संश्या-ऽऽहारकमार्गणाश्वेति ॥४१०-४११-४१२।। तदेवं दर्शितः सप्तानां जघन्यस्थिते नाबन्धकाश्रयो द्विविधोऽपि कालः । साम्प्रतं तासामेव सप्तानामजघन्यस्थितेस्तं दिदर्शयिपुः सप्तानामनुत्कृष्टस्थिते नावन्धकाश्रयकालेन बहुसाम्यमितिकृत्वैकयाऽऽर्यया सापवादमतिदिशति अजहण्णाअ ठिईए सत्तण्ह अगुरुठिइव्व सव्वासु। णवरि लढू खुड्डभवो दुसमयहीणो अपज्जणरे ॥४१३॥ (प्रे०) "अजहण्णाअठिईए” इत्यादि, सप्तानामायुर्जानां मूलप्रकृतीनां नानावन्धकाश्रयः कालः "अगुरुठिइव्व सव्वासु” ति निरयगत्योघादिसप्तत्युत्तरशतमार्गणासु प्रत्येकं सामान्यतोऽगुरुस्थितिवत् ,-सप्तानामनुत्कृष्टस्थितेः प्रागुक्तनानावन्धकाश्रयजघन्योत्कृष्टद्विविधकालवदित्यर्थः । इदमुक्तं भवति'होइ अणुकोसाए ठिईए सत्तण्ह मीसु-वसमेसु । हस्सो भिन्नमुहुत्तं मिस्सदुजोगेसु समयो वा ॥३८७।। समयो असमत्तणरे आहारम्मि गयवेअ-सुहमेसु सासायणे य णेयो छेए अद्धतइअसयसमा॥३८८॥ परिहारे वासाणं वीसपुहुत्तं हवेज्ज सेसासु । सत्रद्धा णायव्योऽणुकोसाए खलु ठिईए ॥३८९।। असमत्तामणुस-विक्कियमीसु-बसम-मीस-सासणेसु गुरू । पलिआऽसंखियभागो आहारदुगे अवेअ-सुहुमेसु॥ भिन्नमुहुत्तं छेए अयरा पण्णासलक्खकोडीओ। परिहारे विण्णेयो देसूणा पुवकोडी दो ॥३९१।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy