________________
मार्गणास्वायुर्वर्जानां जघन्यस्थिति०] द्वितीयाधिकारे कालद्वारम्
[३५७ बन्धकानां च तुल्यत्वात् । ननु कार्मणाऽनाहारकमार्गणयोः प्रत्येकमुत्कृष्टस्थितेर्बन्धकाश्चतु
र्गतिकाः सन्ति, एतासु निरयगत्योयादिमार्गणासु तु जघन्यस्थितेरपि त एकैकगतिसत्कास्तदुभयत्र बन्धकानां तुल्यत्वकथने कथं न दोषः ? इति चेद् , न, असंख्यलोकप्रदेशराशितः स्तोकत्वमपेक्ष्यैव तुल्यत्वस्याऽभिहितत्वादिति ॥४०९।।
अथाऽऽर्यात्रयेण शेषमार्गणासु प्रकृतकालमाहसेसेसुणिरयेसुसव्वेसु पणिंदितिरिय-विगलेसु। सव्वत्थवज्जसेससुरा-ऽपज्जपणिंदियतसेसु ॥४१०॥ पुहवाइचउसु तेसिं बायर-बायरसमत्तभेएसु। पत्तेअवणम्मि तहा समत्तपत्तेअवणकाये ॥४११॥ वेउवदुगे मीसे सासाणम्मि य भवे असंखयमो।
पलिओवमस्स भागो सेसासु भवे मुहुत्ततो ॥४१२॥ (प्रे०) “सेसेसुणिरयेसु" मित्यादि, निरयगत्योध-प्रथमपृथिवीनिरयभेदयोरनन्तरमेव गृहीतत्वात्ताभ्यां विना द्वितीयादिसप्तमान्तपथिवीभेदभिन्नेषु शेषनिरयगतिभेदेष, तथा सर्वेषु पञ्चे. न्द्रियतिर्यग्भेदेष, सर्वे विकलेन्द्रियभेदेषु, तथा "सव्वत्थवज्जसेससुर" ति देवगत्योघ-भवनपति-व्यन्तरदेवभेदानामनन्तरमेव गृहीतत्वात् तैस्त्रिभिः सहितं सवार्थसिद्धविमानदेवगतिभेदं विहाय शेषेषु ज्योतिष्कादिषु चतुरनुत्तरविमानपर्यन्तासु पड्विंशतिदेवगतिमार्गणाभेदेष्वित्यर्थः । तथाऽपर्याप्तशब्दस्य पञ्चेन्द्रियत्रसयोः प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियभेदेऽपर्याप्तत्रसकायभेदे च । अन्यभेदानपि संग्रहीतुमाह- "पुहवाइचउसु”इत्यादि, "वेउव्वदुर्ग'इत्यादि च, पृथिव्यादिवायुकायान्तेषु चतुष्वाघमार्गणास्थानेषु, तेषामेव चतुर्णा चतुर्यु बादरौघेषु चतुर्यु पर्याप्तवादरेष्वित्येवमष्टत्तरभेदेषु, तथा प्रत्येकवनस्पतिकायौघभेदे, पर्याप्तप्रत्येकवनम्पतिकाये, वैक्रियकाययोगवैक्रियमिश्रकाययोगमार्गणाद्विके, सम्यग्मिथ्यात्वे सासादने चेत्येतासु समस्तासु पञ्चषष्टिमार्गणासु प्रत्येकं प्रकृतः सप्तमूलप्रकृतीनां जघन्यस्थिते नाबन्धकाश्रयो दीर्घः कालः पल्योपमस्याऽसंख्यतमैकभागो भवेदित्यर्थः । अयं हि सप्तानामौधिकोत्कृष्टस्थितेर्बन्धकानामुत्कृष्टकालवबोद्धव्यः, तद्वदत्रापि प्रकृतस्थितेर्बन्धकपरिमाणस्यासंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वेऽप्यसंख्येयत्वादेकजीवाश्रयोत्कृष्टबन्धकालस्यान्तमुहूर्तत्वाच्च ।
ननु एतासु मार्गणासु प्रत्येकं जघन्यस्थितेर्बन्धकजीवा असंख्येयाः सन्तोऽपि कासुचिन्मागणास्वौधिकोत्कृष्टस्थितेर्बन्धकपरिमाणापेक्षयाऽसंख्येयगुणा अपि भवन्ति,तत्तास्वप्यसौ कथं स्तोकबन्धकपरिमाणप्रयुक्तोषिकोत्कृष्टस्थितेरुत्कृष्टबन्धककालवत्पल्योपमासंख्येयभागप्रमाण एवोच्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org