________________
३५६ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्त्रायुर्वर्जानां जघन्यस्थिति परिहारे तेऊए पउमाए वेअगे य समयो वा।
भिन्न मुहुत्त व भवे सेसासु भवे मुहुत्तत्तो ॥४०८॥ (प्रे०) “परिहारे” इत्यादि, परिहारविशुद्धिकसंयमे, तेत्रोलेश्यायां, पद्मलेश्यायां, वेदकसम्यक्त्वे चेत्येतायु चतसृषु मार्गणासु प्रत्येकं सप्तानां जघन्यस्थितेनानावन्धकाश्रयो ह्रस्वः कालः “समयो वा भिन्नमुहत्तं व भवे" ति स्वस्थानाऽप्रमत्तसंयतस्यापि जघन्यस्थितिवन्धस्वामित्वमिच्छतां समयो भवेत् । वाकारस्य मतान्तरद्योतकत्वात् कृतकरणाद्धाया अनन्तरप्राग्भाविस्थितिवन्धं कुर्वतोऽप्रमत्तस्यैव जघन्यस्थितिबन्धस्वामित्वमिच्छतोक्तान्यमतेन तु भिन्नमुहूर्त प्रकृतबन्धकाल - इत्यर्थः। एष हि मतद्वयापेक्षयाऽप्येकजीवाश्रयस्य सप्तानां जघन्यस्थितेर्जघन्यवन्धकालस्य तथात्वात्तथा बोद्धव्यः । उक्तं चैकजीवाश्रयकालद्वारेऽपि
___ "परिहारे ते ऊए पउमाए वेअगे य समयो वा । भिन्नमुहुत्तं व भवे" ॥१९१॥ इति ।
"सेसासु" ति उक्तशेषासु मनुष्यगत्योधादिपञ्चत्रिंशन्मार्गणासु प्रत्येकं सप्तानां जघन्यस्थिते नावन्धकाश्रयो ह्रस्वकालोऽन्तमुहूतं भवेत् । तत्र शेषमार्गणा नामत इमाः-मनुष्यौघपर्याप्तमनुष्य-मानुपी-पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रिय-वसकायौघ-पर्याप्तस्त्रसकाय--वेदत्रया-ऽपगतवेदकषायचतुष्क-मत्यादिज्ञानचतुष्क-विभङ्गज्ञान-संयमोघ-सामायिक-छेदोपस्थापन-मूक्ष्मसम्पराय-देशसंयम-चक्षुरादिदर्शनत्रिक--शुक्ललेश्या-भव्य-सम्यक्त्वौघ--क्षायिकसम्यक्त्व--मिश्रदृष्टि-संड्या--ऽऽहारिमार्गणा इति । अत्रापि पूर्ववदेकजीवाश्रयजघन्यवन्धकालानुसारेणैव प्रकृतकालो भावनीय इति ।।४०८।। अथ प्रकृतसप्तानां जघन्यस्थिते नाजीवाश्रयकालमुत्कर्षतो व्याजिहीर्घ राह
णिरय-पढमणिरयेसु देव-भवणदुग-अपज्जमणुसेसु।
उक्कोसो णायब्बो आवलिआए असंखंसो ॥४०९॥ (प्रे०) "णिरयपढमणिरयेसु"मित्यादि, निरयगत्योध-प्रथमपृथिवीनिरयभेदयोस्तथा देवगत्योघ-भवनपति-व्यन्तरद्विका-ऽपर्याप्तमनुष्यमार्गणासु च प्रत्येकं "उक्कोसो णायव्वो” ति आयुर्वर्जसप्तानां मूलप्रकृतीनां जघन्यायाः स्थितेर्वन्धकानामुत्कृष्टः-दीर्घः कालो ज्ञातव्यः । कियानित्याह-"आवलियाए असंख्सो " ति आवलिकाया 'असंख्यांशः' - असंख्येयतमैकभागगतसमयप्रमाण इत्यर्थः । कुतः ? एतासु प्रत्येकं जघन्यस्थितिबन्धस्य विग्रहगतौ भावेनैकजीवमाश्रित्याऽपि द्वौ समयावेब सम्भवात् , तद्वन्धकपरिमाणस्यासंख्येयलोकप्रदेशराश्यपेक्षया स्तोकत्वाच्च । इदमुक्तं भवति-यथा कार्मणा-ऽनाहारकमार्गणयोरुत्कृष्टस्थितेर्वन्धकानामुत्कृष्टकाल आवलिकाया असंख्यभागमात्रस्तथा एतासु मार्गणास्वपि जघन्यस्थितेर्बन्धकानामसौ बोद्धव्यः, कार्मणकाययोगादिमार्गणावन्निरयगत्योघादिमार्गणास्वप्येकजीवाश्रितस्य सप्तानां जघन्यस्थितेर्वन्धकालस्य तद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org