________________
मार्गणास्वायुर्वर्जानां जघन्यस्थिति०] द्वितीयाधिकारे कालद्वारम्
[ ३५५ णान्वयः । कस्याः स्थितेः प्रकृतकालः सर्वाद्धत्याह-"सत्तण्ह" मित्यादि, आयुर्वर्जानां सप्तानां मूलकर्मणां जघन्याः स्थितेरित्यर्थः । सुगमं चेदं, तिर्यग्गत्योघाद्यष्टाविंशतिमार्गणासु प्रत्येकं जघन्यस्थितेवन्धकारिमाणस्यानन्त्यात् । उक्तश्च प्राक परिमाद्वारे यत्'तिरिये सव्वेलिदिय-णिगोदभेअ-बण-उरलमीसेसुं । कम्मण-दुअणाणेसुं अयते अपसत्थलेसासुं ॥३२२।। अभविय-मिच्छत्तेसुं अमणा-णाहारगेसु य अणंता । सत्ताह बंधगा खलु हुन्ति ठिईए जहण्णाय ।।३२३ इति
शेपास्वपर्याप्तवादरपृथिव्यादिमार्गणास्वपि प्रत्येकं बन्धकजीवा असंख्यलोकप्रदेशराशितुल्यास्ततः प्रकृतबन्धका निरन्तरं प्राप्यन्त इति सर्वाद्धाऽभिहित इति ॥४०२-४०४॥
अथ शेषमार्गणासु सप्तकर्मणां जघन्यस्थितेवन्धककालोऽसर्वावेत्यर्थाद्गम्यते । स च सावधिक इतिकृत्वा जघन्योत्कृष्टभेदेन दिदर्शयिपुरादौ जघन्यपद आह--
सव्वणिरय-पंचिंदियतिरियेसु तहा अपज्जमणुसम्मि । सव्वामर-विगलेसु असमत्तपणिदिय-तसेसु ॥४०५॥ पुहवाइचउसु तेसिं बायर-बायरसमत्तभेएसु। पत्तेअवणम्मि तहा समत्तपत्तेअवणकाये ॥४०६॥ पणमण-वय-कायेसु आहार-विउव्वदुग-उरालेसु। .
उवसम-सासाणेसुहस्सो समयो मुणेयव्वो ॥४०७॥
(प्रे०) “सव्वणिरये"त्यादि, अक्षरार्थस्तु प्राग्वत्, ततः सर्वेषु निरयभेदेषु, सर्वेषु पञ्चेन्द्रियतिर्यग्भेदेषु, तथाऽपर्याप्तमनुष्यभेदे, सर्वेष्वमरभेदेषु,सर्वेषु देवगतिभेदेष्वित्यर्थः । तथाऽपर्याप्तपञ्चेन्द्रियभेदे, अपर्याप्तत्रसकायभेदे, पृथिव्यादिषु चतुर्योधभेदेषु, तेषामेव पृथिव्यादीनां चतुर्यु बादरोषभेदेषु, तेषामेव पृथिव्यादीनां चतुर्यु पर्याप्तवादरभेदेषु, तथा प्रत्येकवनस्पतिकायौधभेदे, पर्याप्तप्रत्येकवनस्पतिकायभेदे, पञ्चषु मनोयोगभेदेषु, पञ्चषु वचोयोगभेदेषु, काययोगसामान्ये, आहारक-तन्मिश्रकाययोगयोर्दिके, वैक्रिय-तन्मिश्रकाययोगयोढिके, औदारिककाययोगे, औपशामक-सास्वादनमार्गणयोश्चेत्येतासु षडशीतिमार्गणासु प्रत्येकं प्रकृतायाः सप्तानां जघन्याः स्थिते
र्नानाजीवाश्रयो 'हस्वः' -जघन्यः कालः समयो ज्ञातव्यः । एष हि प्रकृतस्थितेरेकजीवाश्रयजघन्यकालवद् बोद्धव्यः, असंख्यलोकप्रदेशराश्यपेक्षया स्तोकबन्धकपरिमाणासु मार्गणासु नानावन्धकाश्रयजघन्यकालोऽप्येकजीवाश्रयजघन्यबन्धकालवल्लभ्यत इति तु प्रागुपपादितमेव, प्रकृतमार्गणासुप्रत्येकमेकजीवाश्रयः सप्तकर्मणां जघन्यस्थितेर्जघन्यबन्धकालस्तु प्रागेकजीवाश्रयबन्धकालप्ररूपणायामेकसमयो दर्शितो भावितश्च, अत्राप्ययं तथैव भावनीय इति ॥ ४०५-४०७॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only