________________
[ ३५३
मार्गणास्वायुषोऽनुत्कृष्टस्थिति०] द्वितीयाधिकारे कालद्वारम् दर्शना-ऽवधिदर्शन-तेजः-पद्म-शुक्ललेश्या-सम्यक्त्वोध-क्षायिक-क्षायोपशमिकसम्यक्त्व-पासादनसंज्ञिमार्गणाश्वेति ॥३९८॥ अथ प्रकृतमायुषोऽनुत्कृष्टस्थितेर्बन्धककालमुत्कृष्टत आह
परमो अंतमुहत्तं णेयो पज्जत्तणर-मणुस्सीसु। आणतपहुडिसुरेसुआहारदुगम्मि मणणाणे ॥३९९॥ संयम-सामइएसुछेए परिहार-सुइल-खइएसु।
सेसासु असंखयमो भागो पलिओवमस्स भवे ॥४००॥ (प्रे०) “परमो अंतमुहुत्तं यो" इत्यादि, 'परमः'-उत्कृष्टः कालोऽन्तमुहूर्त ज्ञेयः, आयुषोऽनुत्कृष्टस्थितेर्बन्धकानामिति प्रक्रमाद्गम्यते । कासु मार्गणास्वित्याह-"पज्जत्तणरे" त्यादि, पर्याप्तमनुष्य--मानुषीमार्गणयोरानतकल्पप्रभृतिषु पञ्चानुत्तरविमानान्तेषु देवगतिमार्गणाभेदेवाहारका-ऽऽहारकमिश्रकाययोगद्विके, मनःपर्यवज्ञाने, संयमौघ-सामायिकसंयमयोः, छेदोपस्थापनसंयमे, परिहारविशुद्धिकसंयम-शुक्ललेश्या-क्षायिकसम्यक्त्वमार्गणास्वित्येतास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमित्यर्थः । कुतः? प्रत्येकमायुर्वन्धकानां संख्येयत्वादेकजीवाश्रयबन्धकालस्यान्तमुहूर्तत्वाच्चेति । “सेसासु" ति उक्तशेषासु निरयगत्योघादिद्विसप्ततिमार्गणासु "असंखयमो भागो पलिओवमस्स भवे" ति प्रकृतकालः पल्योपमस्यासंख्येयतमैकभागप्रमाणो भवेदित्यर्थः । कुतः ? प्रत्येकं बन्धकपरिमाणस्यासंख्येयत्वेऽप्यसंख्यलोकप्रदेशराश्यपेक्षयास्तोकत्वादेकजीवाश्रयवन्धकालस्यान्तमुहूर्तत्वाच्चेति ।
शेषमार्गणा नामतस्त्विमा:-सर्वे निरयगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, मनुष्यौघाऽपर्याप्तमनुष्यभेदौ, देवोधः,-भवनपत्यादिसहस्रारकल्पान्ता अन्य एकादशदेवभेदाश्च,सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, बादरपर्याप्ताः पृथिव्यादिवायुकायान्ताश्चत्वारो भेदाः, पर्याप्तप्रत्येकवनस्पतिकायभेदः, सर्वे त्रसकायभेदाः,पञ्चमनोयोगभेद-पञ्चवचोयोगभेद-वैक्रियकाययोग-स्त्रीवेद-पु. वेद-मत्यादित्रिज्ञान-विभङ्ग-देशसंयम-चक्षु-वधिदर्शन-तेजः-पद्मलेश्या-सम्यक्त्वौघ-क्षायोपशमिकसम्यक्त्व-सासादन-संज्ञिमार्गणाभेदाश्चेति ॥३९९-४००॥
तदेवमभिहित आदेशतोऽप्यष्टानां मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योः प्रत्येकं बन्धकानां जघन्योत्कृष्टमेदभिन्नो द्विविधोऽपि निरन्तरकालः । साम्प्रतं जघन्याऽजघन्यस्थितिविषयं तं दिदशयिषुरादौ तावदोघत आह
सत्तण्ह बंधगाणं भिन्नमुहुत्तं ठिईअ हस्सासु। हस्सियरो अलहूए सव्वद्धा-ऽऽउस्स दोण्हं वि ॥४०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org