________________
३५२ ]
विहाणे मूलपडिठइबंधो [ मार्गणास्वायुषोऽनुत्कृष्टस्थिति० तिर्यग्गत्योघ-सर्वै केन्द्रियभेद-सर्वनिगोदभेद-पृथिव्यादिपञ्चकायद्यभेदेषु तथा सूक्ष्मपृथिव्यप्तेजोवायुकायौ तत्पर्याप्ताऽपर्याप्तरूपासु द्वादशसु शेषसूक्ष्मभेदेषु, बादरपृथिव्यप्तेजोवायुकायरूपासु चतुर्षु बादरपृथिव्याद्योघभेदेषु प्रत्येक वनस्पतिकायौघभेदे च, तथा “सिं अपज्जेसु" ति तेषां बादरपृथिव्यादिचतुःप्रत्येक वनस्पतिकायपञ्चमानामपर्याप्तभेदेषु अपर्याप्तवादरपृथिवीकायाद्यपर्याप्तप्रत्येकवनस्पतिकायान्तेषु पञ्चष्वपर्याप्तभेदेष्वित्यर्थः । “काये उरालिय" इत्यादि, सार्धगाथा तु सुगमाः । एतासु तिर्यग्गत्यो घाद्याहारिपर्यन्तासु द्विषष्टिमार्गणासु प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्वन्धका असंख्यलोकमदेशराशितुल्यास्तदधिका वाऽनन्ताः सन्तिः, ततश्च निरन्तरमनेकानां प्रस्तुतबन्धकानां लाभात् प्रस्तुतकालः सर्वाद्धा प्राप्यत इति तथैवोक्त इति ।।३९५-३९६-३९७॥
अथानन्तरोक्तद्वापष्टिमार्गणावर्जासु शेपमार्गणासु प्रकृतकाल: सावधिक इति तं जघन्यादिभेदेन दिदर्शयिरादौ ताजघन्यत आह
पण मणक्य - विवेषु आहारदुगे जहण्णगो समयो । णायव्वो सेसासु भिन्नमुहुत्तं मुणेव्व ॥ ३९८ ॥
"
(प्रे० ) “पण मणवये" त्यादि, पञ्चशब्दस्य मनोवचसो: प्रत्येकं योजनात् पञ्चमनोयोगपञ्चवचोयोग-वैक्रियकाययोगेषु तथाऽऽहारककाययोगा-ऽऽहारकमिश्र काययोग मार्गणाद्वय इत्येतासु त्रयोदशमार्गणासु प्रत्येकं जहण्णगो"त्ति आयुषोऽनुत्कृष्टस्थितेर्वन्धकानां जघन्य एव जघन्यकः कालः "समयो" त्ति समयमात्रो ज्ञातव्य इत्युत्तरार्धेऽन्वयः । कुतः ? असंख्य लोक प्रदेश राश्यपेक्षया स्तोकवन्धक परिमाणासु मार्गणास्वेक जीवाश्रयजघन्यवन्धकालानुसारेण प्रकृतकालस्य लाभात्, एकजीवाश्रयजघन्यबन्धकालस्य त्वधिकृतमार्गणायां समयमात्रत्वाञ्च । उक्तञ्च प्राग्
......अणुक्कोसार लहू खणो होइ पणम गवयेसु । काये उरले बिउवे आहारदुगे कसायेसु ं ||१४३||' इति ।
अत्र काययोगौ-दारिककाययोग- कपायमार्गणानां वर्जनं तासु प्रत्येकं बन्धकपरिमाणस्यानन्तत्वादिति बोद्धव्यमिति । "सेसासु" ति तिर्यग्गत्योघाद्यनन्तरोक्तद्विषष्टिमार्गणाः, प्रकृतगाथोक्ता मनोयोगादित्रयोदशमार्गणाश्च विहाय शेवास्वायुर्वन्धप्रायोग्यासु निरयगत्योघाद्याशीतिमार्गणासु "भिन्नमुत्तं मुणेयव्वो" त्ति आयुषोऽनुत्कृष्टस्थितेर्बन्धकानां नानाजीवाश्रयो जघन्यकालो 'भिन्नमुहूर्तम्' - अन्तर्मुहूर्तं ज्ञातव्य इत्यर्थः । अयमपि कालः शेषमार्गणासु बन्धकपरिमाणस्योक्ताऽपेक्षया स्तोकत्वे सत्यप्येकजीवाश्रयस्य जघन्यवन्धकालस्यान्तर्मुहूर्तस्वात् प्रागुक्तनीत्या बोद्धन्य इति । शेषा अष्टाशीतिमार्गणाः पुनर्नामत इमाः सर्वे निरयगतिभेदाः सर्वे देवगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदाः सर्वे मनुष्यगतिभेदाः सर्वे विकलेन्द्रियभेदाः सर्वे पञ्चेन्द्रियभेदाः, बादरपर्याप्ताः पृथिव्यप्तेजोवायुकायिकाः, पर्याप्तप्रत्येक वनस्पतिकायः सर्वे सकायभेदाः, स्त्रीवेद-पुरं वेदमत्यादिचतुर्ज्ञान - विज्ञ-संयमौघ- सामायिक-छेदोपस्थापनीय- परिहारविशुद्धिकसंयम- देशसंयम-चक्षु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org