________________
मार्गणास्वायुषोऽनुत्कृष्ट स्थिति०] द्वितीयाधिकारे कालद्वारम्
[ ३५१ किं सर्वास्वित्थमेवोतास्ति कासुचित्कश्चिद्विशेष इत्यत आह-"णवरं परमो” इत्यादिगाथाद्वयम्, 'नवरं'-परमयमत्र विशेषः, कोऽसावित्याह-“परमो” इत्यादि, 'परमः'-उत्कृष्टः कालः संख्येयाः समया भवति । कासु मार्गणास्वित्याह-"तिमणुसेसु"मित्यादि, मनुष्योध-पर्याप्तमनुष्य-मानुपीरूपेषु त्रिषु मनुष्यगतिमार्गणाभेदेषु तथाऽऽनतकल्पादिषु पञ्चानुत्तरविमानपर्यन्तेष्वष्टादशषु देवगतिमार्गणाभेदेष्वाहारका-ऽऽहारकमिश्रकाययोगमार्गणाद्विक-मत्यादिचतुर्ज्ञानमार्गगासु, संयमौव-सामायिकसंयममार्गणयोः, छेदोपस्थापनसंयममार्गणायां परिहारविशुद्धिकसंयम-देशसंयमा-ऽवधिदर्शनमार्गणासु, तेजः-पम-शुक्ललेश्या-सम्यक्त्वोध--क्षायिकसम्यक्त्व-वेदकसम्यक्त्व--सासादनमार्गणासु चेत्येतासु चत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः।।
तत्र जघन्यकालः सर्वमार्गणास्बोधवदेकसमयस्तृत्कृष्टाबाधाऽधीनस्यायुष उत्कृष्टस्थितिबन्धस्यैकस्मिन भवे सकृत् समयमेव प्रवर्तनात्, तद्वन्धकपरिमाणस्य च प्रत्येकं मार्गणास्वसंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वाच्च । स चैकजीवाश्रितजघन्यकालवद्विद्भावनीयः । मूक्ष्मापयोप्तेकेन्द्रियादिमार्गणासूत्कृष्टस्थितिकायुर्वन्धकानामसंख्यलोकप्रदेशराश्यपेक्षयास्तोकत्वं तूत्कृष्टस्थितिकजीवानां लोके स्तोकत्वेन हेतुना परिमाणद्वारे भावितमिति तत एवावसेयम् । प्रतिमार्गणमुत्कृष्टस्थितिकायुर्वन्धकपरिमाणस्तोकत्वादेवायुप उत्कृष्टस्थितेर्बन्धकानामुत्कृष्टकालोऽपि यासु मार्गणासु बन्धकपरिमाणमसंख्येयं तासु मार्गणास्वसंख्येयाः समयाः प्राप्यते, यासु पुनर्मागणासूत्कृष्टस्थितेवन्धकजीवपरिमाणं संख्येयं तासु मनुष्यगत्योघादिमार्गणासु संख्येयसमयमात्रः प्राप्यते, अत सः “परमो आवलिआए असंखंसो” इत्योत्सर्गिकवचनेन सर्वमार्गणासु लाघवार्थमावलिकाऽसंख्यभागमात्रोऽभिहितोऽपि सन् “नवरं परमो समया संखेज्जा” इत्यादिना मनुष्यगत्योघादिमार्गणासु पश्चादपोदित इति ।।३९२-३९४॥ अथायुषोऽनुत्कृष्टस्थितेर्बन्धकानां कालमभिधित्सुराह
सव्वद्धा-ऽऽउस्स भवे अगुरुठिईअ तिरियम्मि सब्वेसु। एगिदि-णिगोएसुपुहवाइपणसु य सेससुहुमेसु॥३९५॥ बायरपुहवाइचउसु पत्तेअवणे य सिं अपज्जेसु। काये उरालियदुगे णपुंसग-कसायचउगेसु॥३९६॥ अण्णाणदुगम्मि तहा असंयमा-ऽचक्खु-असुहलेसासु।
भवि-येयर-मिच्छेसू असण्णि-आहारगेसु च ॥३९७॥ (प्रे०) “सव्वद्धाउस्स भवे" इत्यादि,अनन्तरं वक्ष्यमाणतिर्यग्गत्योघादिद्विषष्टिमार्गणास्वायुषः "अगुरुठिईअ" ति 'अगुरुस्थितेः'-अनुत्कृष्टायाः स्थितेः “सव्वद्धा” त्ति प्रकृतो नानाबन्धकाश्रयः कालः सर्वाद्धा भवेदित्यर्थः । तिर्यग्गत्योधादिमार्गणा एवाह-"तिरियम्मि”इत्यादिना,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org