________________
३५० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुष उत्कृष्ठस्थिति० कायस्थितिरेवानुसतव्या । यद्वा सान्तरासु प्रकृतचतुर्मार्गणासु प्रत्येकं संख्येया एव जीवाः, एकजीवाश्रयोत्कृष्टकायस्थितिश्च प्रत्येकमन्तमुहूर्तमात्राऽभिहिता, एवं च सति मनुष्यगत्योवादिमार्गणासु सप्तानामुत्कृष्टस्थितेवन्धकानां संख्येयत्वादुत्कृष्टस्थितेरेकजीवाश्रयस्य गुरुबन्धकालस्यान्तमुहूर्तत्वाच्च यथा नानाजीवाश्रयः सप्तानामुत्कृष्टस्थितेरुत्कृष्टवन्धकालोऽन्तमुहूर्त प्राप्यते तथा प्रकृतचतुर्मार्गणानां नानाजीवाश्रयः कालोऽप्यन्तमुहर्तमेव प्राप्यतेति सामर्थ्याद्गम्यते, तथा च सति प्रकृतानुत्कृष्टस्थितेबन्धकानामुत्कृष्ट कालोऽपि तावन्मात्रोऽन्तमुहूर्तमेव प्राप्यत इति ।
"छेए” त्ति प्राग्यच्छेदोपस्थापनसंयममार्गणायाम् “अतरा पण्णासलक्खकोडिओ" त्ति अतिमहत्वादुदधिवत् तरितुम्-अचिरात् पारं नेतुन शक्यन्त इत्पतराः-सागरोपमाणि पञ्चाशलक्षकोटय इत्यर्थः । कुतः ? छेदोपस्थापनसंयममार्गणाया नानाजीवाश्रयोत्कृष्टकालस्य तावत्प्रमाणत्वात् । छेदोपस्थापनसंयममार्गणाया नानाजीवाश्रयोत्कृष्ट कालस्तु प्राग-“उको सेणं पन्नासं सागरोवमकोडिसयसहस्साइ” इति श्रीभगवतीग्रन्थेन दर्शित एवेति । परिहारविशुद्धिकसंयममार्गणायामपि “परिहारविसुद्धिा पुच्छा, गोयमा ! जहन्नेणं देसूणाई दो वाससयाई, उक्कोसेणं देसूणाओ दो पूवकोडिओ" इत्यनेन श्रीभगवत्यां परिहारविशुद्धिकसंयमस्य नानाजीवाश्रयोत्कृष्ट कालस्य देशोनपूर्वकोटीद्वयप्रमाणस्याभिहितत्वात् प्रकृतकालोऽपि तावन्मात्र एव प्राप्यत इति तं तथैव दर्शयन्नाह-“परिहारे विण्णेयो" इत्यादि, गतार्थम् ॥३९०-३९१।।
तदेवमभिहित आयुर्वर्जानां सप्तानामुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकानां कालो मार्गणास्थानेष्वपि । साम्प्रतमवशेषस्यायुःकर्मण उत्कृष्टानुत्कृष्टस्थित्योर्बन्धकानां कालं दिदर्शयितुरादौ तावदुत्कृष्टां स्थितिमधिकृत्याह
आउस्सुक्कोसाए ठिईअ कालो हवेज्ज सव्वासु। हस्सो समयो परमो आवलियाए असंखंसो ॥३९२॥ णवरं परमो समया संखेज्जा होअए-तिमणुसेसु। आणतपहुडिसुरेसु आहारदुग-चउणाणेसु ॥३९३॥ संयम-सामइएसु छेए परिहार-देस-ओहिसु ।
सुहलेस-सम्म-खाइअ-वेअग-सासायणेसुचः॥६९४॥ (प्रे०) “आउस्सुक्कोसाए ठिईअ'' इत्यादि, आयुष उत्कृष्टायाः स्थितेः “कालो” त्ति नानावन्धकाश्रयः कालः "हवेज्ज सव्वासु” ति त्रिपष्ट्यभ्यधिकशतसंख्याकासु सर्वमार्गणासु भवेत । कीदृशः कियाँश्चेत्याह-"हस्सो समयो” इत्यादि,'ह्रस्वः'-लघुः कालः समयः, 'परमः'दीर्घः काल आलिकाया असंख्यांशः, आवलिकाऽसंख्येयतमैकभागगताऽसंख्येयसमया इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org