________________
मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थिति०] द्वितीयाधिकारे कालद्वारम्
[ ३४९ यावन्नैर्यन्तर्येण तेनाप्यनुपालितम् ,अतः परं न कोऽपीदं प्रतिपद्यते,तीर्थकरं तत्समीपे प्रतिपन्नप्रकृतचारित्रं वा विहायान्यसमीपे तत्प्रतिपत्तेनिषेधात् । एवं च सति जघन्यतो द्विचत्वारिंशदभ्यधिकवर्षशतं निरन्तरं प्रकृतचारित्रिणां प्राप्तिर्भवति, एपैव श्रीमद्भगवत्यां देशोनशतवर्षद्वयेनाभिहिता, प्रकृते च वर्षाणां विंशतिपृथक्त्वैरपि तावन्मात्रः काल एवाभिहित इति ।
___"सेसासु" ति अनन्तरोक्ताः सम्यग्मिथ्यात्वाद्यकादशमार्गणाः संत्यज्य शेपास्कोनषष्ट्यत्तरशतमार्गणामु प्रत्येकं "सव्वडा णायव्वो" इत्याद्यत्तरार्धम् , आयुर्वर्जानां सप्तानामनुत्कृष्टायाः स्थितेत्रन्धकानां कालः सर्वाद्धा ज्ञातव्यः । किं जघन्य उत्कृष्टो वा ? इति चेत् , न जघन्यो न वोत्कृष्टः, सर्वाद्धाया निरवधिकत्वेन जघन्योत्कृष्ट भेदभिन्नत्वाभावात् । एष ह्यनन्तरं"होइ अणुकोसाए" इत्यस्या गाथाया वृत्तौ भावित इति ।।३८९।।
__तदेवमुक्तोऽपर्याप्तमनुष्यायेकादशमार्गणानां सान्तरत्वात्तासु सप्तानामनुत्कृष्टायाः स्थितेबन्धकानां जघन्यकालो यथासम्भवम् , शेषासु तु सर्वाद्धा । साम्प्रतं यासु जघन्यकाल उक्तस्तास्वेव नानाजीवाश्रयमाणोत्कृष्टावस्थानकालाऽऽक्षिप्तमुत्कृष्टकालं दर्शयन्नाह
असमत्तमणुस-विक्कियमीसु-वसम-मीस-सासणेसु गुरू । पलिअअसंखियभागो आहारदुगे अवेअ-सुहुमेसु ॥३९०॥ (गीतिः) भिन्नमुहुत्तं छेए अयरा पण्णासलक्खकोडीओ।
परिहारे विण्णेयो देसूणा पुबकोडी दो ॥३९१॥
(प्रे०) “असमत्तमणुसे"त्यादि, अपर्याप्तमनुष्य-वैक्रियमिश्रकाययोगौ--पशमिकसम्यक्त्व-मिश्र-सासादनमार्गणासु प्रत्येकं “गुरू" त्ति प्रकृतत्वात् सप्तकर्मसत्कानुत्कृष्ट स्थितेर्वन्धकानां 'गुरुः'-उत्कृष्टः कालः “पलिअअसंखियभागो" ति पल्योपमाऽसंख्यभागो भवति, तत्तन्मार्गणानां नानाजीवाश्रयोत्कृष्टकालस्य तावन्मात्रत्वात् । उक्तं च पञ्चसंग्रहवृत्ती
'नानाप्रकारा अपर्याप्तकानेकमनुष्यकायस्य तत्सन्ततेरव्यवच्छिन्नाया उत्कृष्टतः पल्योपमासंख्येयभागमात्रा स्थितिः' इति।
तथैव 'पल्लासंखियभागो वेउब्वियमिस्सगाण अणुसारो' तथा 'पल्लासंखियभागो सासणमिस्सा य हुंति उकोसं ।' इत्यादिभिः श्रीजीवसमासादिग्रन्थवचनैः प्रकृतमार्गणानां नानाजीवाश्रयोत्कृष्ट कालस्य तथात्वात् प्रकृतबन्धककालोऽपि तथोपपादनीय इति । __"आहारदुगे अवेअसुहुमेसु” ति आहारककाययोगा-ऽऽहारकमिश्रकाययोगमार्गणयोविके, अपगतवेद-सूक्ष्मसम्परायसंयममागणयोरित्येतासु चतसृषु मार्गणासु प्रत्येकं 'भिन्नमुहूर्त' मित्युत्तरगाथायामन्वयः, सप्तानामनुत्कृष्टस्थितेर्बन्धकानामुत्कृष्टः काल इति प्रक्रमाद् बोद्धव्यम् । अत्रापि “भिन्नमुहुत्तं आहारमिस्से"त्यादिना ग्रन्थान्तरोक्ता प्रकृतमार्गणासत्का नानाजीवाश्रययोत्कृष्ट
* अत्र काचिदशुद्धिः सम्भाव्यते, उद्धरणीया विबुधैः सम्यगालोच्य सेति ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only