________________
३४८ ]
बंधविहाणो मूलपयडिठिबंधो [ मार्गणास्वायुर्वर्जानामनुत्कृष्ठस्थिति० तत्र जघन्यकाल उत्सर्पिण्यामादितीर्थकरतीर्थकालापेक्षया, उत्कृष्टकालस्त्ववसर्पिण्यां प्रथमतीर्थकरशासनकालापेक्षया प्राप्यते । उक्तश्च तद्वत्तौ श्रीमदभयदेवसूरिपादः
“पृथक्त्वेन कालचिन्तायां "छेनोवट्ठावरिणए" इत्यादि, तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीति, तीर्थ च तस्य साढ़े द्वे वर्षशते भवतीत्यत उक्तम् - "सड्ढाइन्जाइ" इत्यादि, तथाऽवसर्पिपयामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रवर्तते, तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः "उकोसेरणं पन्नास"मित्याद्युक्तम्' इति ।
इत्थं च तीर्थजघन्यकालस्य प्रान्तं यावत् केचन सप्तानामनुत्कृष्टस्थितेर्बन्धका नियमेन लभ्येरन् । न च तीर्थकालमध्य एव कदाचित् सर्वेषां च्छेदोपस्थापनीयसंयतानामुत्कृष्ट स्थितिबन्धसम्भवः, यतस्तथाभावेऽन्तमुहर्तादचं तेषां सर्वेषां मिथ्यात्वगमनेन तीर्थकालेऽवशेष एव च्छेदोपस्थापनसंयताभावः स्यात् । स च नेष्यते, आदितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीत्यभिवानात् । इत्थं हि च्छेदोपस्थापनसंयममार्गणायां सप्तानामनुत्कृष्ट स्थितेर्बन्धकानां कालो नाऽपर्याप्तमनुष्यादिमार्गणावदेकजीवाश्रयजघन्यवन्धकालानुसार्थेकसमयः, किन्तु नानाजीवाश्रयजघन्यमार्गणाकालतुल्यः सार्धे द्वे वर्षशत इति तथैवाभिहित इति ।।३८८।।
अथ परिहारविशद्धिकसंयममार्गणायामपि प्रकृतबन्धकानां कालोऽनन्तरोक्तनीत्या नान्तमुहर्तमात्रः, किन्तु देशोनशतवर्षद्वयं प्राप्यते, परिहारविशुद्धिकसंयमस्य नानाजीवाश्रयजघन्यकालस्य तावन्मात्रत्वात् । उक्तं च श्रीमत्यां भगवत्याम्
___ परिहारविसुद्वीए पुच्छा, गोयमा ! जहन्नेणं देसूणाई दो वाससयाई, उक्कोसेणं देसूणाओ दो पूयकोडीओ' इति ।
अतः परिहारविशुद्धिकसंयममार्गणायां प्रकृतबन्धकालं तावन्मानं तथा शेषमार्गणासु बन्धकानां सर्वथाऽभावलक्षणस्याऽन्तरस्यैवाऽभावात् तासु सर्वाद्धां च दर्शयन्नेकां गाथामाह
परिहारे वासाणं वीसपुहुत्तं हवेज सेसासु।
सव्वद्धा णायबोऽणुक्कोसाए खलु ठिईए ॥३८९॥ (प्रे०) “परिहारे वासाण"मित्यादि, परिहारविशुद्धिकसंयममार्गणायां “वासाणं वीसपुहुत्तं हवेज"त्ति सप्तानामनुत्कृष्टस्थितेन्वकानां निरन्तरो जघन्यकालो वर्षाणां विंशतिपृथक्त्वानि भवेत् । एप तूतनीत्या नानाजीवाश्रयप्रकृतमार्गगासत्कदेशोनशतवर्ष यात्मकजघन्यकालाक्षिप्तो बोद्धव्यः, प्रकृतमार्गणायामपि छेदोपस्थापनसंयममार्गणावन मार्गणान्तराभिमुखानामेव सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्वामित्वात् । मार्गणाजघन्यकालस्त्वित्थं भाव्यते-वर्षशतायुपा केनाऽपि नवकेन गणेन स्वायुष एकोनत्रिंशद्वर्षेषु गतेपूत्सर्पिण्यामाद्यतीर्थकरस्य समीपे परिहारविशुद्धिकं चारित्रं प्रतिपयैकसप्ततिवर्याणि निरन्तरं निव्यूढम् , तदायुःपर्यन्ते च तत्समीपे वर्षशतायुषवाऽन्येन नवकगणेन स्वायुष एकोनत्रिंशद्वर्षेषु व्यतीतेषु परिहारविशुद्धिकचारित्रमङ्गीकृतं, तच्च स्वायुपोऽन्तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International