________________
मार्गणास्वायुर्वर्जानामनुत्कृष्स्थिति०] द्वितीयाधिकारे कालद्वारम्
[ ३४७ चाऽन्तरं प्राप्यते । शेषमार्गणासु तु सर्वदा जीवानां सद्भावात् तैर्जीवितबहुभागेषु सप्तानां नानास्थितिबन्धात्मकस्यानुत्कृष्टाऽजघन्यस्थितिवन्धस्यैव निर्वर्तनाच्चानुत्कृष्टाऽजघन्य स्थितेर्बन्धकाः सर्वदा प्राप्यन्ते, ततश्चैकादशमार्गणावर्जासु शेषमार्गणासु प्रस्तुतानुत्कृष्टस्थितेबन्धकानां ह्रस्वेतरभेदभिन्न सावधिकं कालमप्रदर्य सर्वाद्वैव प्रस्तुतकाल उत्तरत्र दर्शयिष्यते । अपर्याप्तमनुष्यायेकादशमार्गणातु त्वसावनुत्कृष्टस्थितेवन्धकानां कालो द्विधा दर्शयितु युज्यते, सादिसान्तत्वात्ताताम् । तत्राऽनुत्कृष्टस्थितेबन्धकानां जघन्यकालः प्रायेणैकजीवाश्रयजघन्यवन्धकालतुल्यः प्राप्यते,अनुत्कृष्टस्थितेबन्धकानामुत्कृष्टकालस्तु मार्गगाया नानाजीवाश्रयोत्कृष्टकालतुल्यः प्राप्यते । अजघन्यस्थितेन्धकानां कालोऽप्यनया नीत्यैव प्राप्यते, अत एव वक्ष्यतेऽग्रे यद्-“अजहण्णाअ ठिईए सत्तण्ह अगुरुठिइव्व" इत्यादि,अत्र नियमे प्रायोग्रहणं छेदोपस्थापनीयसंयमादिमार्गणान्तरे दीर्घकालं यावन्नियमतोऽनुत्कृष्टस्थितेर्वन्धकानां लाभेनातिप्रसङ्गनिवारणार्थम् । औपशशमिकसम्यक्त्व-मिश्रदृष्टिमार्गणाद्वये सप्तानामनुत्कृष्टस्थितेजघन्यबन्धकालस्तु प्रागेकजीवमाश्रित्यान्तमुहूर्तमभिहितस्ततो नानाजीवानाश्रित्याऽप्यसो तथैवान्तमुहूर्त बोद्धव्यः । वैक्रियमिश्रा-ऽऽहारकमिश्रकाययोगमार्गणयोस्तु प्रागेकजीवमाश्रित्य सप्तानामनुत्कृष्टस्थितेर्जधन्यबन्धकालो मतद्वयेन यथासम्भवं समयोऽन्तमुहूर्त चोक्तः, स एव प्रकृतेऽपि लभ्यत इति तथैव दर्शयन्नाह-"मिस्सदुजोगेसु समयो वा" ति ऽनन्तरोक्तस्य 'भिन्नमुहुत्त'मित्यस्य काकाक्षिगोलकन्यायेनात्रापि योजनाद् वैक्रियमिश्रकाययोगा-ऽऽहारकमिश्रकाययोगमार्गणाइये सप्तकर्मसत्कानुत्कष्टस्थितेर्वन्धकानां ह्रस्वः कालो भिन्नमुहूर्त समयो वा भवतीत्यर्थः । अत्र भावनात्वेकजीवाश्रयवन्धकालवत्तत्तन्मतानुसारेण कर्तव्येति ॥३८७॥
समयो असमत्तणरे आहारम्मि गयवेअ-सुहमेसु।
सासायणे य णेयो छेए अद्धतइअसयसमा ॥३८८॥ (प्रे०) “समयो असमत्तणरे” इत्यादि, प्रकृतो ह्रस्वकालः समयो झेप इति गाथोत्तराधेऽन्वयः । कासु मार्गणास्वित्याह-"असमत्तणरे” इत्यादि, अपर्याप्तमनुष्या-ऽऽहारककाययोगगतवेद-मूक्ष्मसम्परायसंयम-सासादनरूपासु पञ्चमार्गणासु प्रत्येकमित्यर्थः । सुगमं चैतत् , सूक्ष्मसम्पराये पग्णां तथा शेषासु प्रत्येक सप्तानामनुत्कृष्टस्थितेरेकजीवाश्रयजघन्यबन्धकालस्य समयमात्रत्वादिति । “छेए” त्ति 'भीमो भीमसेने तिन्यायाच्छेदोपस्थापनसंयममार्गणायाम् "अहतइअसयसम" ति । प्रकृतो ह्रस्वकालोऽर्धतृतीयशतानि 'समाः' -वर्षाणि, पञ्चाशदभ्यधिकशतद्वयवर्षाणि भवतीत्यर्थः । कुतः ? उत्सर्पिण्यां प्रथमतीर्थकरतीर्थस्य तावत्कालं प्रवर्तनात् , तत्तीर्थान्तं यावच्छेदोपस्थापनसंयतानां वर्तनाच्च । इदमुक्तं भवति-छेदोपस्थापनसंयता जघन्यतः सार्धशतद्वयवर्षाणि यावन्नरन्तर्येण प्राप्यन्ते । उक्तं च श्रीपञ्चमा पञ्चविंशतितमशतकसप्तमोद्देशे
_ "छेदोवट्ठावणिएसु पुच्छा० गोयमा ! जहन्नेणं अड्ढाइज्जाइ वाससयाई, उक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्साइ” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org