________________
३४६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थिति० शेषमार्गणा नामतस्त्विमाः सर्वे निरयगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यभेदः, सर्वार्थसिद्धविमानभेदवर्जाः शेषा एकोनत्रिंशदेवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः सर्वे पञ्चेन्द्रियभेदाः, पृथिव्यप्तेजोवायुकायसत्काश्चत्वार ओषभेदाश्चत्वारो बादरौषभेदाश्चत्वारश्च पर्याप्तबादरभेदाः, प्रत्येकवनस्पतिकायौघ-पर्याप्तप्रत्येकवनस्पतिकायभेदौ, सर्वे त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोगसामान्यौदारिककाययोगौ-दारिकमिश्रकाययोग-वैक्रियकाययोग-वैक्रियमिश्रकाययोग-स्त्री-पु-नपुंसकवेद-क्रोधादिचतुःकपाय-मतिज्ञान-श्रतज्ञाना-ऽवधिज्ञानमत्यज्ञान-श्रुताज्ञान--विभङ्गज्ञान-देशसंयमा-ऽसंयम-चक्ष-रचक्षु- रवधिदर्शन--कृष्णादिपल्लेश्या-भव्या-- ऽभव्य-सम्यक्त्वोध-क्षायिक-वेदको--पशमिकसम्यक्त्व--सामादन-मिश्र-मिथ्यात्व-संड्य-सिंड्या-ऽऽहारिमार्गणाभेदाश्चेति । इदन्तु बोडव्यम्-एतासु प्रत्येकं पल्योपमासंख्येयभागमात्रोऽपि प्रकृतकालो बन्धकपरिमाणादिकस्य हीनाधिकताऽपेक्षया स्तोकोऽधिको वा भवति, केवलं स्तोकोऽपि पल्योपमासंग्ख्येयभागप्रमाणः, अधिकोऽपि पल्योपमासंख्येयभागप्रमाण एव; पल्योपमासंख्येयभागस्याख्येयभेदभिन्नत्वादिति तुल्य एवेति नानधारणीय इति ॥३८६॥
तदेवमभिहितः सप्तानामुत्कृष्टायाः स्थितेर्बन्धकानां द्विविधोऽपि कालः । साम्प्रतं तेषामेव सप्तानामनुत्कृष्टस्थितिमधिकृत्य तमाह
होइ अणुकोसाए ठिईअ सत्तण्ह मीसु-बसमेसु।
हस्सो भिन्नमुहुत्तं मिम्सदुजोगेमु समयो वा ॥३८७॥ (प्रे०) “होइ अणुक्कोसाए”इत्यादि,मिश्रदृष्ट्यौपशमिकसम्यक्त्वमार्गणयोरायुर्वजानां सप्तानामनुत्कृष्टायाः स्थितेः “हस्सो भिन्नमुहुत्तं" ति प्रकृतत्वाद् बन्धकानां 'ह्रस्वः -जघन्यः कालो भिन्नमुहूतं भवति । कुतः ? इति चेत् , नानाजीवानाश्रित्य मार्गणा यस्य सान्तरत्वादेकजीवमाश्रित्य. प्रकृतानुत्कृष्टस्थितिबन्धकालस्य जघन्यतोऽन्तमुहूर्तत्वाच्च । इदमुक्तं भवति-अपर्याप्तमनुष्यभेद-बैक्रियमिश्रकाययोगा--ऽऽहारका-ऽऽहारकमिश्रकाश्योग-छेदोपस्थापन--परिहारविशुद्धिकमूक्ष्मसम्परायसंयमौ-पमिकसभ्यक्त्व-सासादन-मिश्रदृष्टिरूपा दश मार्गणाः स्वभावत एव सान्तराः, तासु मार्गणामु कदाचिजीवा भवन्ति, कदाचित्त्वपर्याप्त मनुष्यादितया कस्याऽपि जीवस्यासद्भावेन सर्वथाजीवाभावरूपमन्तरमपि प्रवर्तते, अपगतवेदमार्गणाया अपि सर्वजीवापेक्षया निरन्तरत्वेऽपि स्थितिवन्धकजीवापेक्षया तु सान्तरत्वमेव । कुतः ? श्रेणिगतजीवानामेव तत्र प्रवेशात् , श्रेणिद्वयस्य सान्तस्त्वाच्च । अत एवोक्तं जीवसमासे'पल्लाउसंखियभाग सासणमिस्सासमत्तमणुएसं । वासपुहुत्तं उवसामएसु खबगेसु छम्मासा ।। आहारभिस्सजोगे वासपुहुत्तं विउवमिसेसुं । बारस हुंति मुहुत्ता सम्वेसु जहण्णओ समओ ॥' इति।।
ततः किं ? ततस्तास्वेकादशमार्गणास्वेवानुत्कृष्टस्थितेर्वन्धकानामजघन्यस्थितेर्बन्धकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org