________________
मार्गणास्वायुर्वजनामुत्कृष्ट स्थिति० ] · द्वितीयाधिकारे कालद्वारम्
[ ३४५
प्रत्येकमुत्कृष्टस्थितिबन्धकपरिमाणस्याऽसंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वात् तथैकजीवाश्रयस्य प्रकृतोत्कृष्टस्थितेर्वन्धकालस्य जघन्यतः समयमात्रत्वादौ धिकोत्कृष्टस्थितेर्वन्धकानां जघन्यकालयत् प्रकृतजघन्यबन्धकालसमयमात्रोऽभिहित इति ॥ ३८३ ||
अथ सतानामुत्कुष्टायाः स्थितेर्वन्धकानामुत्कृष्टकालं मार्गगास्थानेषु दिदर्शयिपुराह— अह कोसो मुहुत्तो ॥ ३८४ ॥ तिमणुस - सव्वत्थेसु आहारदुगे अवेअ-सुमेसु । मणणाण-संयमेसु समइअ-छेअ-परिहासु ॥३८५॥
(ग्रे०) “अह उक्कोसो” इत्यादि, 'अथ' सप्तानामुत्कृष्टायाः स्थितेर्बन्धकानां ह्रस्वकालनिरूपणानन्तरम् “उक्कोसो” तितेामेवोत्कृष्टः कालो निरूप्यते, स च "मुहुत्ततो” ति भिन्नमुहूर्त ज्ञातव्यः । कासु मार्गणास्त्रित्याह - "तिमणुसे" त्यादि, अपर्याप्तभेदवर्जा स्वोघ-पर्याप्त मानुषी भेदभिनासु त्रिसृषु मनुष्यमार्गणासु, सर्वार्थसिद्धाख्यदेवगतिभेदे, आहरका -ऽऽहारकमिश्र काययोगयोकि, अपगतवेदसूक्ष्म पम्परा संयम मार्गजयोस्तथा मनःपर्यवज्ञान-संयमौघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयममार्गणा स्वित्येतासु त्रयोदशमार्गगास्त्रित्यर्थः । कुत एतासु प्रत्येकमन्तमुहूर्तमेव ? इति चेत्, जीवानां संख्येयत्वादेकजी नाश्र योत्कृष्टबन्धकालस्यान्तर्मुहूर्तत्वाच्च । इदन्तु बोद्धयम्सप्तानामेकजीवापेक्षान्तमुहूर्तोत्कृष्टबन्धकालान्नानाजीवाश्रयः प्रकृतोऽन्तमुहूर्तकाल: संख्येयगुणाविको भवति, संख्येयानां वन्धकानामविरततया लाभसम्भवादिति ।। ३८४-३८५।।
अथ शेषमार्गणास्वेकयाऽऽर्यया प्रकृतोत्कृष्टकालमाह
S.
कम्मा - SSणाहारेसु आवलिआए भवे असंखंसो । सेसास असंयमो भागो पलिओ मस्स भवे ॥ ३८६॥
(प्रे०) “कम्माणाहारेसु" मित्यादि, कार्मणकाययोगाऽनाहारकमार्गणयोः “आवलिआए भवे असंखंसो" ति सप्तानामुत्कृष्टस्थितेर्वन्धकानामुत्कृष्टः काल आवलिकाया असंख्येयभागः, असंख्येयभागगतसमयप्रमाणो भवेदित्यर्थः । कुतः ? इति चेद्, उच्यते, एतयोः प्रत्येकं प्रकृतस्थितेरेकजीवाश्रयो बन्धकाल उत्कृष्टतोऽपि द्विसमयमात्रोऽभिहितः, बन्धकपरिमाणं चासंख्येयं सदस्यसंख्यलोकप्रदेशराश्यपेक्षया स्तोकमभिहितम् इत्थञ्च मार्गणाद्वयेऽपि प्रकृतकाल उत्कृष्टपदे आवलिकाऽसंख्येयभागमात्रः प्राप्यते, नत्वधिकः । अथ यासु मार्गणासु सप्तानामुत्कृष्टस्थितेरेकजीवाश्रयवन्धकाल उत्कर्षतोऽप्यन्तर्मुहूर्त प्रमाणः, तद्बन्धका चौधिकोत्कृष्टस्थितेर्वन्धकवदसंख्येयाः सन्तोऽप्यसंख्यलोकप्रदेशराश्यपेक्षया स्तोकास्तासु तासामुत्कृष्टस्थितेर्नानाबन्धकाश्रयं कालं तथैव पल्योपमासंख्येयभागप्रमाणं दर्शयन्नाह - "सेसासु" इत्यादिना, गतार्थम् ।
,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org